________________
रत्नाकरावतारिकायुक्तः। कारविनाशाजहद्वृत्तोत्तराकारोत्पादाविनाभावी भवेत् । नच जीवादौ वस्तुनि हर्षामौदासीन्यादिपर्यायपरम्पराऽनुभवः स्खलद्रूपः, कस्यचिद्वाधकस्याभावात् । ननूत्पादादयः परस्परं भिद्यन्ते, नवा । यदि भिद्यन्ते, कथमेकं वस्तु व्यात्मकम् ?। न भिद्यन्ते चेत् , तथापि कथमेकं त्र्यात्मकम् ?। तथाच___“यद्युत्पत्त्यादयो भिन्नाः कथमेकं त्रयात्मकम् ? ।
अथोत्पत्त्यादयोऽभिन्नाः कथमेकं त्रयात्मकम् ?"॥१॥ इति चेत् । तद्युक्तम् । कथञ्चिद्भिन्नलक्षणत्वेन तेषां कथञ्चिद्भेदाभ्युपगमात् । तथाहि- उत्पादविनाशध्रौव्याणि स्याद्भिन्नानि, भिन्नलक्षणत्वात, रूपादिवत् । नच भिन्नलक्षणत्वमसिद्धम् । असतः आत्मलाभः, सतः सत्तावियोगः, द्रव्यरूपतयाऽनुवर्त्तनं च खलूत्पादादीनां परस्परमसंकीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव । नचामी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्पवदसत्त्वापत्तेः । तथाहि-उत्पादः केवलो नास्ति, स्थितिविगमरहितत्वात् , कूर्मरोमवत् ; तथा विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात्, तद्वत् ; एवं स्थितिः केवला नास्ति, विनाशोत्पादशून्यत्वात् , तद्वदेव; इत्यन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम् । तथाच कथं नैकं व्यात्मकम् ? । किंच । अपरमभ्यधिमहि पञ्चाशति
प्रध्वस्ते कलशे शुशोच तनया मौलौ समुत्पादिते पुत्रः प्रीतिमुवाह कामपि नृपः शिश्राय मध्यस्थताम्। पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्वया
धारश्चैक इति स्थितं त्रयमयं तत्त्वं तथाप्रत्ययात् ॥१॥ तथाच स्थितं नित्यानित्यानेकान्तः कान्त एवेति । एवं सदसदनेकान्तोऽपि । नन्वत्र विरोधः। कथमेकमेव कुम्भादि वस्तु सञ्च, असञ्च भवति ? । सत्त्वं ह्यसत्त्वपरिहारेण व्यवस्थितम् , असत्त्वमपि सत्त्वपरिहारेण; अन्यथा तयोरविशेष: स्यात् । ततश्च तद्यदि सत् , कथमसत् ?, अथासत् , कथं सदिति?। तदनवदातम्। यतो यदि येनैव प्रकारेण सत्त्वम् ,