________________
प्रमाणनयतत्वालोकालङ्कार:तेनैवाऽसत्त्वम् ; येनैव चासत्त्वम् , तेनैव सत्त्वमभ्युपेयेत, तदा स्याद्विरोधः । यदा तु स्वरूपेण घटादित्वेन, स्वद्रव्येण हिरण्मयादित्वेन, स्वक्षेत्रेण नागरादित्वेन, स्वकालत्वेन वासन्तिकादित्वेन सत्त्वम् , पररूपादिना तु पटत्वतन्तुत्वग्राम्यत्वप्रैष्मिकत्वादिनाऽसत्त्वम् , तदा क विरोधगन्धोऽपि। ये तु सौगताः परासत्त्वं नाभ्युपयन्ति, तेषां घटादेः सर्वात्मकत्वप्रसङ्गः। तथाहि- यथा घटस्य स्वरूपादिना सत्त्वम् , तथा यदि पररूपादिनाऽपि स्यात् , तथा सति स्वरूपादित्ववत् पररूपादित्वप्रसक्तेः कथं न सर्वात्मकत्वं भवेत् । परासत्त्वेन तु प्रतिनियतोऽसौ सिध्यति । अथ न नाम नास्ति परासत्त्वम् , किंतु स्वसत्त्वमेव तदिति चेत् । अहो! नूतनः कोऽपि तर्कवितर्ककर्कशः समुल्लापः । न खलु यदेव सत्त्वम् , तदेवासत्त्वं भवितुमर्हति, विधिप्रतिषेधरूपतया विरुद्धधर्माध्यासेनानयोक्यायोगात्। अथ पृथक् तन्नाभ्युपगम्यते; नच नाभ्युपगम्यत एवेति किमिदमिन्द्रजालम् ?। ततश्चास्यानक्षरमसत्त्वमेवोक्तं भवति । एवं च यथा स्वासत्त्वासत्त्वात्स्वसत्त्वं तस्य , तथा परासत्त्वासत्त्वात्परसत्त्वप्रसक्तिरनिवारितप्रसरा, विशेषाभावात्। अथ नाभावनिवृत्त्या पदार्थो भावरूपः, प्रतिनियतो वा भवति, अपि तु स्वसामग्रीतः स्वस्वभावनियत एवोपजायत इति किं परासत्त्वेनेति चेत् ? । न किञ्चित् । केवलं स्वसामग्रीतः स्वखभावनियतोत्पत्तिरेव परासत्त्वात्मकत्वव्यतिरेकेण नोपपद्यते, पारमार्थिकस्खासत्त्वासत्त्वात्मकखसत्त्वेनेव परासत्त्वासत्त्वात्मकपरसत्त्वेनाप्युत्पत्तिप्रसङ्गात् । यौगास्तु प्रगल्भन्ते- सर्वथा पृथग्भूतपरस्पराभावाभ्युपगममात्रेण पदार्थप्रतिनियमप्रसिद्धेः पर्याप्तं तेषामसत्त्वात्मकत्वकल्पनाकदर्थनेनेति । तदसुन्दरम् । यतो यदा पटाद्यभावरूपी घटो न भवति, तदा घटः पटादिरेव स्यात् । यथाच घटस्य घटाभावाद्भिन्नत्वाद्धटरूपता, तथा पटादेरपि स्यात् , घटाभावाद्भिन्नत्वादेव । किश्च । अमीषां भावानां स्वतो भिन्नानाम् , अभिन्नानां वा भिन्नाभावेन भेदः क्रियते । नाद्यः पक्षः, खहेतुभ्य एव भिन्नानामेषामुत्पत्तेः । नापि द्वितीयः, स्वयमभिन्नानामन्योन्याभावासंभवात् । भावाभावयोश्च भेदः स्वत एव वा स्यात्, अभावान्तरेण वा । प्राचि पक्षे, भावानामपि