________________
रवाकरावतारिकायुक्तः। खरूपेणैवायमस्तु, किमपरेणाभावेन परिकल्पितेन ? । द्वितीये, पुनरनवस्थानापत्तिः, अभावान्तरेष्वप्यभावान्तराणां भेदकानामवश्यखीकरणीयत्वात् । कथश्चिदभिन्ने तु भावादभावे न कश्चिदमूदृशकलङ्कावकाशः । वस्त्वेव हि तत्तथा; सदसदंशयोस्तथापरिणतिरेव हि घटः पटो वाऽभिधीयते, न केवलः सदंशः, ततः कथं घटादिः परेणात्मानं मिश्रयेत् ? । इति सूक्तः सदसदनेकान्तः । एवमपरेऽपि भेदाभेदानेकान्तादयः स्वयं चतुरौविवेचनीयाः॥८॥ इति प्रमाणनयतत्त्वालोकालकारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायां प्रमेयस्वरूप
निर्णयो नाम पञ्चमः परिच्छेदः॥५॥
AAY
: