________________
प्रमाणनयतत्त्वालोकालकार:
कथमस्य तथाऽवभासनम् ? इत्यन्यत्रापि तुल्यम् । न खलु सदृशपरिणामशून्यं स्वलक्षणमप्यस्ति, यत् तथाऽवभासेत । ननु स्वलक्षणस्य विसहशाकारात्मनः सदृशपरिणामात्मकत्वं विरुध्यते । नैवम् । ज्ञानस्य चित्राकारतावत्, विकल्पेतराकारतावच्चैकस्योभयात्मकत्वाविरोधात् । ततो व्यावृत्तप्रत्ययहेतुविसदृशाकारतावद् वस्तुनः सदृशपरिणामात्मकत्वमप्यनुयायिप्रत्ययहेतुः स्वीकार्यम् ॥ ४ ॥ - अथ सामान्यद्वितीयभेदं सनिदर्शनमुपदर्शयन्तिपूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्वतासामान्यं कटक
कङ्कणाद्यनुगामिकाञ्चनवत् ॥ ५॥ पूर्वापरपर्याययोरनुगतमेकं द्रव्यम् , द्रवति तांस्तान् पर्यायान् गच्छसीति व्युत्पत्त्या त्रिकालानुयायी यो वस्त्वंशः, तदूर्खतासामान्यमित्यभिधीयते। निदर्शनमुत्तानमेव । अत्रैकस्य कालत्रयानुयायितायां जनुषाऽन्धः शौद्धोदनिशिष्यः समाचष्टे-अहो ! कष्टः शिष्टैरुपक्रान्तोऽयमेकस्यानेककालावस्थितिवादः। प्रतिक्षणभङ्गुरभावावभासनायामेव हि प्रमाणमुद्रा साक्षिणी। तथाहि-यत् सत् , तत्क्षणिकम् , संश्च विवादाध्यासितः शब्दादिः।सत्त्वं तावद् यत् किञ्चिदन्यत्रास्तु, प्रस्तुते तावदर्थक्रियाकारित्वमेव मे संमतम् , तच्च शब्दादौ धर्मिणि प्रत्यक्षप्रमाणप्रतीतमेव। विपक्षाच्च व्यापकानुपलब्ध्या व्यावृत्तम् । सत्त्वस्य हि क्षणिकत्ववत् क्रमाक्रमावपि व्यापकावेव । न हि क्रमाक्रमाभ्यामन्यः प्रकारः शङ्कितुमपि शक्यते, व्याघातस्योद्भटत्वात् , न क्रम इति निषेधादेवाक्रमोपगमात् , नाक्रम इति निषेधादेव च क्रमोपगमात् । तौ च क्रमाक्रमौ स्थिराव्यावर्त्तमानावर्थक्रियामपि ततो व्यावर्त्तयतः। वर्तमानार्थक्रियाकरणकाले ह्यतीतानागतयोरप्यक्रिययोः समर्थत्वे तयोरपि करणप्रसङ्गः। असमर्थत्वे पूर्वापरकालयोरप्यकरणापत्तिः । समर्थोऽप्यपेक्षणीयासन्निधेर्न करोति, तत्सन्निधेस्तु करोतीति चेत्। ननु किमर्थ सहकारिणामपेक्षा ? किं स्वरूपलाभार्थम् , उतोपकारार्थम् , अथ कार्यार्थम् । न प्रथमः, स्वरूपस्य कारणाधीनस्य नित्यस्य वा पूर्वसिद्धत्वात् । न द्वितीयः, स्वयं सामर्थेऽसामर्थ्य वा तस्यानुपयोगात्।