________________
रत्नाकरावतारिकायुक्तः ।
त
मात्रेणैव व्यक्तिषु प्रसिद्धेरनवसर एव सदृशपरिणामस्वरूपसामान्यस्वीकारः । सर्वतो व्यावृत्तानि हि स्वलक्षणानि न मनागप्यात्मानमन्येन मिश्रयन्तीति । तदेतन्मरुमरीचिकाचक्रोदकाऽऽचान्तये ऽञ्जलिपुटप्रसारणम् । यत इयमन्यव्यावृत्तिर्बहिः, अन्तवी भवेत् । तत्र खण्डमुण्डादिविशेषप्रतिष्ठैकान्यव्यावृत्तेर्बहिः सद्भावे सामान्यरूपता दुर्निवारा । आन्त रत्वे तु तस्याः कथं बहिरर्थाभिमुख्येनोल्लेखः स्यात् ? । नान्तः, बहिर्वा सेत्यपि स्वाभिप्रायप्रकटनमात्रम् । तथाभूतं ह्यन्यव्यावृत्तिस्वरूपं किञ्चित्,न किञ्चिद्वा। किञ्चिचेत्, नूनमन्तर्बहिर्वा तेन भाव्यम्, च प्रतिपादितदोषानतिक्रमः । न किञ्चिचेत् कथं तथाभूतप्रत्ययहेतुः ? । वासनामात्रनिर्मित एवायमिति चेत्, तर्हि बहिरर्थापेक्षा न भवेत् । न ह्यन्यकारणको भावोऽन्यदपेक्षते, धूमादेः सलिलाद्यपेक्षाप्रसङ्गात् । किञ्च । वासनाऽप्यनुभूतार्थविषयैवोपजायते । नचात्यन्तासत्त्वेन त्वन्मते सामान्यानुभवसम्भवः । अपि च । वासना तथाभूतं प्रत्ययं विषयतयोत्पादयेत्, कारणमात्रतया वा । प्राचि पक्षे सकलविशेषानुयायिनी पारमार्थिकी परिच्छेद्यस्वभावा वासनेति पर्यायान्तरेण सामान्यमेवाभिहितं भवेत् । कारणमात्रतया तु वासनायाः सदृशप्रत्ययजनने विषयोऽस्य वक्तव्यः, निर्विषयस्य प्रत्ययस्यैवासंभवात् । नच सदृशपरिणामं विमुच्यापरस्तद्विषयः सङ्गच्छते, प्रागुदीरितदोषानुषङ्गात् । किञ्च । इयमन्यव्यावृत्तिः स्वयमसमानाकारस्य, समानाकारस्य वा वस्तुनः स्यात्। प्राक्तनविकल्पकल्पनायामतिप्रसङ्गः, कुरङ्गतुरङ्गतरङ्गादिष्वपि तत्संभवापत्तेः, तथा च तेष्वनुगताकारैकप्रत्ययानुषङ्गः । स्वयं समानाकारस्य तु वस्तुनोऽभ्युपगमे समुपस्थित एवायमतिथिः सदृशपरिणामः कथं पराणुद्यताम् ? । ननु यया प्रत्यासत्त्या केचन भावाः स्वयं सदृशपरिणामं बिभ्रति, तयैव स्वयमतदात्मका अपि सन्तस्तथा किन्नावभासेरन् ? इति चेत् । तदनुचितम् । चेतनेतरभेदाभावप्रसङ्गात् । ययैव हि प्रत्यासत्त्या चेतनेतरस्वभावान् भावाः स्वीकुर्वन्ति, तयैव स्वयमतदात्मका अपि सन्तस्तथा किं नावभासेरन् ? इत्यपि ब्रुवाणस्य ब्रह्माद्वैतवादिनो न वक्त्रं वक्रीभवेत् । चेतनेतरव्यतिरिक्तस्य ब्रह्मणोऽसत्त्वात्
1
७५