________________
७४
प्रमाणनयतत्वालोकालकार:
कत्वं घटादेर्घटत इति ॥१॥ __ अधुना सामान्यविशेषस्वरूपानेकान्तात्मकवस्तुसमर्थनार्थ साक्षादे॒तुद्वयमभिदधानाः सदसदाद्यनेकान्तात्मकवस्तुप्रसाधकहेतून सूचयन्तिअनुगतविशिष्टाकारप्रतीतिविषयत्वात्, प्राचीनोत्तराकारपरित्यागोपादानावस्थानखरूपपरिणत्याऽर्थक्रिया
सामर्थ्यघटनाच्च ॥ २ ॥ अनुगताकाराऽनुवृत्तस्वभावा गौौरित्यादिप्रतीतिः, विशिष्टाकारा व्यावृत्तरूपा शबलः श्यामल इत्यादिप्रतीतिस्तद्गोचरत्वात् ; इति तिर्यक्सामान्यगुणाख्यविशेषलक्षणानेकान्तात्मकवस्तुसिद्धौ. हेतुः । प्राचीनोतराकारयोः यथासङ्ख्येन ये परित्यागोपादाने, ताभ्यां यदवस्थानम् , तत्स्वरूपपरिणामेनार्थक्रियासामर्थ्यघटनात् कार्यकरणोपपत्तेः, इत्यूर्ध्वतासामान्यपर्यायाख्यविशेषस्वरूपानेकान्तात्मकवस्तुसिद्धौ हेतुः । चकारात् सदसदाद्यनेकान्तसमर्थकहेतवः सदसदाकारप्रतीतिविषयत्वादयो . द्रष्टव्याः ॥२॥ . इदानी सामान्य प्रकारतः प्ररूपयन्ति
सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्ध्वतासामान्यं च ॥३॥ - तिर्यगुल्लेखिनाऽनुवृत्ताकारप्रत्ययेन गृह्यमाणं तिर्यक्सामान्यम्, ऊर्ध्वमुल्लेखिनाऽनुगताकारप्रत्ययेन परिच्छिद्यमानमूर्खतासामान्यं चेति ॥३॥
तत्राद्यभेदस्य स्वरूपं सोदाहरणमुपदर्शयन्तिप्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यम्, शबलशाब
लेयादिपिण्डेषु गोत्वं यथा ॥४॥ . व्यक्तिं व्यक्तिमधिश्रित्य समाना परिणतिस्तिर्यक्सामान्य विज्ञेयम्। अत्र सौगताः सङ्गिरन्ते- गौौरित्याद्यनुगताकारप्रतिपत्तेरन्यव्यावृत्ति