________________
रत्नाकरावतारिकायुक्तः।
७३
गतज्ञानोत्पत्तौ व्याप्रियमाणं प्रतीयेत, तदा स्यादेतत् , तच्च नास्त्येव । न किञ्चित् कुर्वत्याश्च व्यजकत्वे, विजातीयव्यक्तेरपि व्यञ्जकत्वप्रसङ्गः । वन्नाव्यक्तत्वात् तत्र तस्यानुपलम्भः, किन्त्वसत्त्वादेव; इति न सर्वसर्वगतमप्येतद्भवितुमर्हति, किन्तु प्रतिव्यक्ति कथञ्चिद्विभिन्नम्, कथचित्तदात्मकत्वाद्, विसदृशपरिणामवत् । यथैव हि काचिद्व्यक्तिरुपलभ्यमानाब्यक्त्यन्तराद्विशिष्टा विसदृशपरिणामदर्शनाद्वतिष्ठते, तथा सदृशपरिणामात्मकसामान्यदर्शनात् समानेति, तेनायं समानो गौः, सोऽनेन समान इति प्रतीतेः । नच व्यक्तिस्वरूपादभिन्नत्वात् सामान्यरूपताव्याघातोऽस्य, रूपादेरप्यत एव गुणरूपताव्याघातप्रसङ्गात् । कथञ्चिद्व्यतिरेकस्तु रूपादेरिव सदृशपरिणामस्याप्यत्येव । ननु प्रथमव्यक्तिदर्शनवेलायां कथं न समानप्रत्ययोत्पत्तिः ?, तत्र सदृशपरिणामस्य भावादिति चेत्, तवापि विशिष्टप्रत्ययोत्पत्तिस्तदानीं कस्मान्न स्याद् ?, वैसदृश्यस्यापि भावात् । परापेक्षत्वात् तस्याप्रसङ्गोऽन्यत्रापि तुल्यः । समानप्रत्ययोऽपि हि परापेक्षः, परापेक्षामन्तरेण क्वचित् कदाचिदप्यभावात् , अणुमहत्त्वादिप्रत्ययवत् । विशेषा अपि नैकान्तेन सामान्याद्विपरीतधर्माणो भवितुमर्हन्ति । यतो यदि सामान्यं सर्वगतं सिद्धं भवेत् , तदा तेषामव्यापकत्वेन ततो विरुद्धधर्माध्यासः स्यात्, नचैवम् , सामान्यस्य विशेषाणां च. कथञ्चित्परस्पराव्यतिरेकेणैकानेकरूपतयावस्थितत्वात् । विशेषेभ्योऽव्यतिरिक्तत्वाद्धि सामान्यमप्यनेकमिष्यते, सामान्यात्तु विशेषाणामव्यतिरेकात्तेऽप्येकरूपा इति । एकत्वं च सामान्यस्य संग्रहनयार्पणात् सर्वत्र विज्ञेयम् । प्रमाणार्पणात्तस्य सदृशपरिणामरूपस्य विसदृशपरिणामवत् प्रतिव्यक्ति भेदात् । एवं चासिद्धं सर्वथा विरुद्धधर्माध्यस्तत्वं सामान्यविशेषयोः । यदि पुनः कथञ्चिदेव विरुद्धधर्माध्यस्तत्वं हेतुश्चिकीर्षितम् , तदा विरुद्धमेव, कथंचिद्विरुद्धधर्माध्यासस्य कथंचिद्भेदेनैवाविनाभूतत्वात् । पाथःपावकस्वरूपो दृष्टान्तोऽप्युभयविकलः, तयोरपि कथंचिदेव विरुद्धधर्माध्यस्तत्वेन भिन्नत्वेन च स्वीकरणात् । पयस्त्वपावकत्वादिना हि तयोविरुद्धधर्माध्यासो भेदश्च, द्रव्यत्वादिना पुनस्तद्वैपरीत्यमिति । तथा च कथं न सामान्यविशेषात्म
१०