________________
७२
प्रमाणनयतत्वालोकालङ्कारः
विचित्रा वस्तूनां शक्तिः; यथा मन्त्रादिसंस्कृतमस्त्रमुदरस्थं व्याधिविशेषं छिंनत्ति, नोदरम् ; तद्वदिहापि सामान्यस्येदृशी शक्तिः, यथा स्वहेतुभ्यः समुत्पद्यमानेऽर्थे पूर्वस्थानादचलदेव तत्र वर्त्तत इति चेत् । स्यादेतदेवम्, यद्येकान्तेनैक्यं सामान्यस्य प्रमाणेन प्रसिद्धं स्यात् ; नचैवम्, तस्यैव तत्त्वतो विचारयितुमुपक्रान्तत्वात् । तथाहि - यद्यस्यैकान्तैक्यं कीर्त्यते, तदा भिन्नदेशकालासु व्यक्तिषु वृत्तिर्न स्यादिति । यदि तु स्वभाववादालम्बनमात्रे - णैवेयमुपपाद्यते, तदा किममुना सामान्येन ?, किंतरां वाऽन्येनापि भूयसा वस्तुना परिकल्पितेन ? । एकैव काचित् पद्मनिधीयमाना व्यक्तिरभ्युपगम्यताम् । सा हि तथास्वभावत्वात् तथा तथा प्रथिष्यत इति लाभाभिलाषुकस्य मूलोच्छेदः । तन्न व्यक्तिसर्वगतत्वमेतस्य सङ्गतिगोचरीभावमभजत् । नापि सर्वसर्वगतत्वम्, खण्डमुण्डादिव्यक्त्यन्तरालेऽपि तदुपलम्भप्रसङ्गात् । अव्यक्तत्वात्तत्र तस्यानुपलम्भ इति चेत्, व्यक्तिस्वात्मनोऽप्यनुपलम्भोऽत एव तत्रास्तु । अन्तराले व्यक्त्यात्मनः सद्भावावेदकप्रमाणाभावादसत्त्वादेवानुपलम्भे, सामान्यस्यापि सोऽसत्त्वादेव तत्रास्तु, विशेषाभावात् । किंच । प्रथमव्यक्तिसमाकलनवेलायां तदभिव्यक्तस्य सामान्यस्य सर्वात्मनाऽभिव्यक्तिर्जातैव, अन्यथा व्यक्ताव्यक्तस्वभावभेदेनानेकत्वानुषङ्गादसामान्यस्वरूपताऽऽपत्तिः । तस्मादुपलब्धिलक्षणप्राप्तस्य स्वव्यक्त्यन्तराले सामान्यस्यानुपलम्भादसत्त्वम्, व्यक्तिस्वात्मवत् । अपि च । अव्यक्तत्वात् तत्र तस्यानुपलम्भस्तदा सिध्येद्, यदि व्यक्त्यभिव्यङ्गयता सामान्यस्य सिद्धा स्यात् ; नचैवम्, नित्यैकरूपस्यास्याभिव्यक्तेरेवानुपपत्तेः । तथाहि - व्यक्तिरुपकारं कञ्चित्कुर्वती सामान्यमभिव्यञ्जयेत्, इतरथा वा । कुर्वती चेत्, कोऽनया तस्योपकारः क्रियते । तज्ज्ञानोत्पादनयोग्यता चेत्, सा ततो भिन्ना, अभिन्ना वा विधीयेत । भिन्ना चेत्, तत्करणे सामान्यस्य न किञ्चित्कृतमिति तदवस्थाऽस्थानभिव्यक्तिः। अभिन्ना चेत्, तत्करणे सामान्यमेव कृतं स्यात्, तथा चानित्यत्वप्राप्तिः । तज्ज्ञानं चेदुपकारः, तार्ह कथं सामान्यस्य सिद्धि: ?, अनुगतज्ञानस्य व्यक्तिभ्य एव प्रादुर्भावात् । तत्सहायस्यास्यैवात्र व्यापार इत्यपि श्रद्धामात्रम् । यतो यदि घटोत्पत्तौ दण्डाद्युपेतकुम्भकारवद् व्यक्त्युपेतं सामान्यमनु