________________
अहम् अथ पञ्चमः परिच्छेदः।
-roomइत्थं प्रमाणस्य स्वरूपसंख्ये समाख्याय विषयमाचक्षतेतस्य विषयः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥१॥
तस्य प्रमाणस्य । विसीयन्ते निबध्यन्ते विषयिणोऽस्मिन्निति विषयो गोचरः परिच्छेद्यमिति यावत्। सामान्यविशेषौ वक्ष्यमाणलक्षणावादिर्यस्य सदसदाद्यनेकान्तस्य तत्तदात्मकं तत्स्वरूपं वस्त्विति । एवं च केवलस्य सामान्यस्य, विशेषस्य, तदुभयस्य वा स्वतन्त्रस्य प्रमाणविषयत्वं प्रतिक्षिप्तं भवति। अथैतदाकर्ण्य कर्णानेडपीडिता इव यौगाः संगिरन्ते। नन्वहो जैनाः! केनेदं सुहृदा कर्णपुटविटङ्कितमकारि युष्माकम् , स्वतन्त्रौ सामान्यविशेषौ नप्रमाणभूमिरिति। सर्वगतं हि सामान्यं गोत्वादि, तद्विपरीतास्तु शबलशाबलेयबाहुलेयादयो विशेषाः, ततः कथमेषामैक्यमाफर्णयितुमपि सकर्णैः शक्यम् ? । तथा च सामान्यविशेषावत्यन्तभिन्नौ, विरुद्धधर्माध्यस्तत्वात् ,यावेवं तावेवम् , यथा पाथःपावकौ, तथा चैतौ, तस्मात्तथा, ततो न सामान्यविशेषात्मकत्वं घटादेर्घटते । तदेतत्परमप्रणयपरायणप्रणयिनीप्रियालापप्रायं वासवेश्मान्तरेवराजते। तथाहि-यदिदं सर्वगतत्वं सामान्यस्य न्यरूपि, तत् किं व्यक्तिसर्वगतत्वम् , सर्वसर्वगतत्वं वा स्वीकृत्य । यदि प्राक्तनम् , तदा तर्णकोत्पाददेशे तदविद्यमानं वर्णनीयम् , अन्यथा व्यक्तिसर्वगतत्वव्याघातात्।तत्रोत्पन्नायां च व्यक्तौ कुतस्तत् तत्र भवेत् ? किं व्यक्त्या सहैवोत्पद्येत, व्यक्त्यन्तराद्वा समागच्छेत् ?। नाद्यः पक्षः, नित्यत्वेनास्य स्वीकृतत्वात् । द्वितीयपक्षे तु ततस्तदागच्छत् पूर्वव्यक्तिं परित्यज्यागच्छेत् , अपरित्यज्य वा। प्राचिकविकल्पे, प्राक्तनव्यक्तेनिःसामान्यताऽऽपत्तिः । द्वितीयपक्षे तु किं व्यक्तया सहैवागच्छेत् , केनचिदंशेन वा । आद्ये शाबलेयेऽपि बाहुलेयोऽयमिति प्रतीतिः स्यात् । द्वितीयपक्षे तु सामान्यस्य सांशताऽऽपत्तिः, सांशत्वे चास्य व्यक्तिवदनियत्वप्राप्तिः। अथ