________________
प्रमाणनयतत्वालोकालद्वारा यास्तदुत्पत्तिरहितायाः संभवात्। अथ द्वितीयः, तदा कलशस्योत्तरक्षणः पूर्वक्षणस्य व्यवस्थापको भवेत् , समुदितयोस्तदुत्पत्तितदाकारतयोविद्यमानत्वात्। अथ विद्यमानयोरप्यनयोर्ज्ञानमेवार्थस्य व्यवस्थापकम् ; नार्थः, तस्य जडत्वादिति मतम्। तदपि न न्यायानुगतम् , समानार्थसमनन्तरप्रत्ययोत्पन्नज्ञानैर्व्यभिचारात्। तानि हि यथोक्तार्थव्यवस्थापकत्वलक्षणस्य समग्रस्य सद्भावेऽपिप्राच्यं जनकज्ञानक्षणं न गृह्णन्ति । अपि च । किमिदमझंकारत्वं वेदनानां ? यद्वशात्प्रतिनियतार्थपरिच्छेदः स्यात् । किमर्थाकारोल्लेखित्वम् , अर्थाकारधारित्वं वा । प्रथमप्रकारे, अर्थाकारोल्लेखोऽर्थाका रपरिच्छेद एव, ततश्च ज्ञान प्रतिनियतार्थपरिच्छेदात्प्रतिनियतमर्थमवद्योतयतीति साध्याविशिष्टत्वं स्पष्टमुपढौकते । द्वितीयप्रकारे पुनराकारधारित्वं ज्ञानस्य सर्वात्मना, देशेन वा । प्रथमपक्षे, जडत्वादर्थस्य ज्ञानमपि जडं भवेत् , उत्तरार्थक्षणवत्। प्रमाणरूपत्वाभावश्चोत्तरार्थक्षणवदेवास्य प्रसज्येत, सर्वात्मना प्रमेयरूपताऽनुकरणात्। अथ देशेन नीलत्वादिनाऽर्थाकारधारित्वमिष्यते ज्ञानस्य, तर्हि तेनाजडाकारेण जडताप्रतिपत्तेरसंभवात् कथं तद्विशिष्टत्वमर्थस्य प्रतीयेत? । न हि रूपज्ञानेनाप्रतिपन्नरसेन तद्विशिष्टता सहकारफलादौ प्रतीयते। किंच। देशेनाकारधारित्वान्नीलार्थवन्निःशेषार्थानामपि ज्ञानेन ग्रहणापत्तिः, सत्त्वादिमात्रेण तस्य सर्वत्रार्थाकारधारित्वाविशेषात् । अथ तदविशेषेऽपि नीलाद्याकारवैलक्षण्यान्निखिलार्थानामग्रहणम् , तर्हि समानाकाराणां समस्तानां ग्रहणप्राप्तिः । अथ यत एव ज्ञानमुत्पद्यते, तस्यैवाकारानुकरणद्वारेण ग्राहकम् , हन्त ! एवमपि समानार्थसमनन्तरप्रत्ययस्य तद्ग्राहकं स्यादित्युक्तम् । ततो न तदुत्पत्तितदाकारताभ्यां ज्ञानस्य प्रतिनियतार्थावभासः, किंतु प्रतिबन्धकापगमविशेषादिति सिद्धम् ॥४७॥ इति प्रमाणनयतत्त्वालोकालङ्कारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायामागमस्वरूपनिर्णयो
नाम चतुर्थः परिच्छेदः।