________________
...रवाकरावारिकायुक्त - वस्तुन्येवमभेदवृत्तेरसंभवे कालादिभिभिन्नात्मनामभेदोपचारः क्रियते । वदेताभ्यामभेदवृत्त्यभेदोपचाराभ्यां कृत्वा प्रमाणप्रतिपन्नानन्तधर्मात्मकस्य वस्तुनः समसमयं यदभिधायकं वाक्यं स सकलादेशः प्रमाणवाक्यापरपर्याय इति स्थितम् ।
"कालात्मरूपसंबन्धाः संसर्गोपक्रिये तथा ।
गुणिदेशार्थशब्दाश्चेत्यष्टौ कालादयः स्मृताः" ॥१॥४४॥ अधुना नयवाक्यस्वभावत्वेन नयविचारावसरलक्षणीयस्वरूपमपि विकलादेश सकलादेशस्वरूपनिरूपणप्रसङ्गेनात्रैव लक्षयन्ति
तद्विपरीतस्तु विकलादेशः॥४५॥ नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्याद्, भेदोपचाराद्वा क्रमेण यदभिधायकं वाक्यम् , स विकलादेशः । एतदुल्लेखस्तु नयस्वरूपानभिज्ञश्रोतृणां दुरवगाह इति नयविचारावसर एव प्रदर्शयिष्यते॥४५॥
प्रमाणं निर्णीयाथ यतः कारणात् प्रतिनियतमर्थमेतब्यवस्थापयति, तत्कथयन्तितद् द्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेषत्ररूपसामर्थ्यतः प्रतिनियतमर्थमवद्योतयति ॥ ४६॥
प्रत्यक्षपरोक्षरूपतया द्विप्रकारमपि प्रागुपवर्णितस्वरूपं प्रमाणं स्वकीयज्ञानावरणाद्यदृष्टविशेषक्षयक्षयोपशमलक्षणं योग्यतावशात्प्रतिनियतं नीलादिकमर्थ व्यवस्थापयति ॥ ४६॥ ___एतद्व्यवच्छेद्यमाचक्षतेन तदुत्पत्तितदाकारताभ्याम् , तयोः पार्थक्येन सामस्त्ये
" न च व्यभिचारोपलम्भात् ॥४७॥ ___ तथाहि- ज्ञानस्य तदुत्पत्तितदाकारताभ्यां व्यस्ताभ्यां, समस्ताभ्यां वा प्रतिनियतार्थव्यवस्थापकत्वं स्यात् । यदि प्राच्यः पक्षः, तदा कपालक्षणः कलशान्त्यक्षणस्य व्यवस्थापकः स्यात्, तदुत्पत्तेः केवलायाः सद्भावात् । स्तम्भः स्तम्भान्तरस्य च व्यवस्थापकः स्यात्, तदाकारता