________________
प्रमाणनयतवालोकालङ्कारः
"
पादनसंभवाद्यौगपद्यम् । के पुनः कालादयः ? । कालः, आत्मरूपं, अर्थः, संबन्धः, उपकारः, गुणिदेशः, संसर्गः शब्दः, इत्यष्टौ । तत्र स्याज्जीवादि वस्त्वस्त्येवेत्यत्र यत्कालमस्तित्वं तत्कालाः शेषानन्तधर्मा वस्तुन्येकत्रेति तेषां कालेनाभेदवृत्तिः १ । यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपम्, तदेव चान्यानन्तगुणानामपीत्यात्मरूपेणाभेदवृत्तिः २ । य एव चाधारोऽर्थो द्रव्याख्योऽस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनाभेदवृत्तिः३॥ य एव चाविष्वग्भावः कथञ्चित्तादात्म्यलक्षणः संबन्धोऽस्तित्वस्य, स एवाशेषविशेषाणामिति संबन्धेनाभेदवृत्तिः ४ । य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणम्, स एव शेषैरपि गुणैरित्युपकारेणाभेदवृत्तिः ५। य एव गुणिनः संबन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य, स एवान्यगुणानामिति गुणिदेशेनाभेदवृत्तिः ६ । य एव चैकवस्त्वात्मनाऽस्त्वित्वस्य संसर्गः, स एवाशेषधर्माणामिति संसर्गेणाभेदवृत्तिः । ननु प्रागुक्तसंबन्धादस्य कः प्रतिविशेषः ? । उच्यते । अभेदप्राधान्येन भेद्गुणभावेन च प्रागुक्तः संबन्धः, भेदप्राधान्येनाभेदगुणभावेन चैष संसर्ग इति ७ । य एवास्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः, स एव शेषानन्तधर्मात्मकस्यापीति शब्देनाभेदवृत्तिः ८ ॥ पर्यायार्थिकनयगुणभावे द्रव्यार्थिकनयप्राधान्यादुपपद्यते । द्रव्यार्थिकगुणभावेन पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः संभवति, समकालमेकत्र नानागुणानामसंभवात्, संभवे वा तदाश्रयस्य तावद्वा भेदप्रसङ्गात् १ । नानागुणानां संबन्धिन आत्मरूपस्य च भिन्नत्वात्, आत्मरूपाभेदे तेषां भेदस्य विरोधात् २ ॥ स्वाश्रयस्यार्थस्यापि नानात्वात्, अन्यथा नानागुणाश्रयत्वविरोधात् ३ । संबन्धस्य च संबन्धिभेदेन भेददर्शनात्, नानासंबन्धिभिरेकत्रैकसंबन्धाघटनात् ४। तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात्, अनेकैरुपकारिभः क्रियमाणस्योपकारस्यैकस्य विरोधात् ५ । गुणिदेशस्य च प्रतिगुणं भेदात्, तदभेदे भिन्नार्थगुणानामपि गुणिदेशाभेदप्रसङ्गात् ६। संसर्गस्य च प्रतिसंसर्ग भेदात्, तदभेदे संसर्गिभेदविरोधात् ७ | शब्दस्य च प्रतिविषयं नानात्वात्, सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशकदुवाच्यताऽऽपत्तेः शब्दान्तरवैफल्यापत्तेः ८ ।। तत्त्वतोऽस्ति त्वादीनामेकत्र
६८