________________
रत्नाकरावतारिकायुक्तः
सन्देहस्यापि सप्तधात्वे कारणमाहुःतस्यापि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः ॥ ४२ ॥
तस्य प्रतिपाद्यगतसन्देहस्य । स्वगोचरवस्तुधर्माणां सन्देहविषयी - कृतानामस्तित्वादिवस्तुपर्यायाणाम् ॥ ४२ ॥
६७
इयं सप्तभङ्गी किं सकलादेश स्वरूपा, विकलादेशस्वरूपा बेत्यारेकां वराकुर्वन्ति
इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च ॥४३॥
एकैको भङ्गोऽस्याः संबन्धी सकलादेशस्वभावः, विकलादेशस्वभाबश्चेत्यर्थः ॥४३॥
अथ सकलादेशं लक्षयन्तिप्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेद - वृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं
वचः सकलादेशः ॥४४॥
कालादिभिरष्टाभिः कृत्वा यदभेदवृत्तेर्धर्मधर्मिणोरपृथग्भावस्य प्राधान्यं तस्मात्, कालादिभिर्भिन्नात्मनामपि धर्मधर्मिणामभेदाध्यारोपाद्वा समकालमभिधायकं वाक्यं सकलादेश: प्रमाणवाक्यमित्यर्थः । अयमर्थःयौगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिरभेदवृत्त्या, अभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचाराद्, भेदप्राधान्याद्वा तदभिधत्ते, तस्य नयायत्तत्वात् । कः पुनः क्रमः ? किं वा यौगपद्यम् ? । यदाऽस्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा, तदैकस्य शब्दस्यानेकार्थप्रत्यायने शक्त्यभावात् क्रमः; यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते, तदैकेनापि शब्देनैकथर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्यानेका शेषरूपस्य वस्तुनः प्रति