________________
प्रमाणनयतत्वाळोकालद्वार:अत्र बीजमाख्यान्ति-.. विधिमात्रादिप्रधानतयाऽपि तस्थ प्रसिद्धेः ॥ ३६॥
नन्वेकस्मिन् जीवादी वस्तुन्यनन्तानां विधीयमाननिषिध्यमानानों धर्माणामङ्गीकरणादनन्ता एव वचनमार्गाः स्याद्वादिनां भवेयुः, वाच्येयत्ताऽऽयत्तत्वाद् वाचकेयत्तायाः; ततो विरुद्धैव सप्तभङ्गीति ब्रुवाणं निरस्यन्तिएकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि
निधेयम् ॥ ३७॥ ___ अत्र हेतुमाहुःविधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि . सप्तभङ्गीनामेव संभवात् ॥३८॥ ___एकैकं पर्यायमाश्रित्य वस्तुनि विधिनिषेधविकल्पाभ्यां व्यस्तसम-. स्ताभ्यां सप्तैव भङ्गाः संभवन्ति, न पुनरनन्ताः । तत्कथमनन्तभङ्गीप्रसङ्गादसङ्गतत्वं सप्तभङ्गयाः समुद्भाव्यते ? ॥ ३८ ॥
कुतः सप्तैव भङ्गाः संभवन्तीत्याहुःप्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् ॥ ___ एतदपि कुत इत्याहुःतेषामपि सप्तत्वं सप्तविधतजिज्ञासानियमात् ॥४॥
अथ सप्तविधतज्जिज्ञासानियमे निमित्तमाहुःतस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात ॥४१॥
तस्या अपीति प्रतिपाद्यजिज्ञासायाः। तत्संदेहसमुत्पादादिति प्रतिपाद्यसंशयसमुत्पत्तेः ॥ ४१॥