________________
रवाकराववारिकायुक्तः।
च न चतुरस्रम् ॥२९॥ स्यादवक्तव्यमेवेति चतुर्थभजैकान्तो न श्रेयानित्यर्थः ॥२९॥ कुत इत्याहुः
तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् ॥३०॥ अथ पञ्चमभङ्गैकान्तमपास्यन्तिविध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक
एव स इत्येकान्तोऽपि न कान्तः ॥३१॥ अत्र निमित्तमाहुःनिषेधात्मनः सह द्वयात्मनश्वार्थस्य वाचकलावाचकला
भ्यामपि शब्दस्य प्रतीयमानलात् ॥३२॥ 'निषेधात्मनोऽर्थस्य वाचकत्वेन सह, विधिनिषेधात्मनोऽर्थस्यावाचकत्वेन च शब्दः षष्ठभङ्गे प्रतीयते यतः, ततः पञ्चमभङ्गैकान्तोऽपि न श्रेयान् ॥३२॥ · षष्ठभङ्गैकान्तमपाकुर्वन्तिनिषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवा
चक एवायमित्यप्यवधारणं न रमणीयम् ॥ ३३ ॥ अत्र हेतुमुपदर्शयन्ति
इतरथाऽपि संवेदनात् ॥ ३४॥ आद्यभङ्गादिषु विध्यादिप्रधानतयाऽपि शब्दस्य प्रतीयमानखादित्यर्थः ॥ ३४ ॥
अथ सप्तमभङ्गैकान्तमपाकुर्वन्तिक्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्वावाचकश्च
ध्वनिर्नान्यथेत्यपि मिथ्या ॥ ३५॥