SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ६४ प्रमाणनयतवालो कालकार:.. अत्र हेतुमाहुः-. निषेधस्य तस्मादप्रतिपत्तिप्रसक्तः ॥२३॥ तस्मादितिशब्दात् ॥२३॥ आशङ्कान्तरं निरस्यन्ति अप्राधान्येनैव ध्वनिस्तमभिधत्ते इत्यप्यसारम् ॥२४॥ तमिति निषेधम् ॥२४॥ अत्र हेतुमाचक्षतेकचित्कदाचित्कथञ्चित्प्राधान्येनाप्रतिपन्नस्य तस्याप्रा धान्यानुपपत्तेः ॥२५॥ न खलु मुख्यतः स्वरूपेणाप्रतिपन्नं वस्तु कचिंदप्रधानभावमनुभवतीति ॥२५॥ इत्थं प्रथमभङ्गैकान्तं निरस्येदानी द्वितीयभङ्गैकान्तनिरासमतिदिशन्तिनिषेधप्रधान एव शब्द इत्यपि प्रागुक्तन्यायादपास्तम्॥२६॥ . व्यक्तम् ॥२६॥ अथ तृतीयभङ्गैकान्तं पराकुर्वन्तिक्रमादुभयप्रधान एवायमित्यपि न साधीयः ॥२७॥ अयमितिशब्दः ॥२७॥ एतदुपपादयन्तिअस्य विधिनिषेधान्यतरप्रधानखानुभवस्याप्यबाध्यमा नलात् ॥२८॥ प्रथमद्वितीयभङ्गगतैकैकप्रधानत्वप्रतीतेरप्यबाधितत्वान्न तृतीयभङ्गकान्ताभ्युपगमः श्रेयान् ॥२८॥ अथ चतुर्थभङ्गैकान्तपराभवाय प्राहुःयुगपद्विधिनिषेधात्मनोऽर्थस्यावाचक एवासाविति
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy