SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ - रबाफरावतारिकायुक्तः। ६३ स्थाने पठ्यते, तृतीयश्चैतस्य स्थाने । नचैवमपि कश्चिदोषः; अर्थविशेपस्याभावात् ॥ १८ ॥ अथ पञ्चमभङ्गोल्लेखमुपदर्शयन्तिस्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगप द्विधिनिषेधकल्पनया च पञ्चमः॥ १९ ॥ स्वद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वे सत्यस्तित्वनास्तित्वाभ्यां सह वक्तुमशक्यं सर्व वस्तु। ततः स्यादस्त्येव स्यादवक्तव्यमेवेत्येवं पञ्चमभङ्गेनोपदीत इति ॥ १९॥ अथ षष्ठभङ्गोल्लेख प्रकटयन्तिस्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युग पद्विधिनिषेधकल्पनया च षष्ठः ॥ २० ॥ परद्रव्यादिचतुष्टयापेक्षया नास्तित्वे सत्यस्तित्वनास्तित्वाभ्यां योगपद्येन प्रतिपादयितुमशक्यं समस्तं वस्तु । ततः स्यान्नास्त्येव स्यादवक्तव्यमेवेत्येवं षष्ठभङ्गेन प्रकाश्यते ॥२०॥ संप्रति सप्तमभङ्गमुल्लिखन्तिस्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो वि. धिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तम इति ॥२१॥ इतिशब्दः सप्तभङ्गीसमाप्त्यर्थः ।स्वपरद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वनास्तित्वयोः सतोरस्तित्वनास्तित्वाभ्यां समसमयमभिधातुमशक्यमखिलं वस्तु तत एवमनन भङ्गेनोपदयते ॥२१॥ अथास्यामेव सप्तभङ्ग्यामेकान्तविकल्पानिराचिकीर्षवः सूत्राण्याहुः विधिप्रधान एव ध्वनिरिति न साधु ॥२२॥ प्राधान्येन विधिमेव शब्दोऽभिधत्ते इति न युक्तम् ॥२२॥
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy