________________
प्रमाणनयतत्त्वालोकालङ्कार:भगवती भजतामभीलुका, तर्हि प्रामाण्यम्। नास्त्येव सादृश्यं, विलक्षणत्वात् स्खलक्षणानामिति चेदिदानीमपि क पलायसे । एवं तर्हि तस्माद् द्विलक्षणोऽयमिति प्रत्यभिज्ञा प्रामाण्यमास्तिघ्नुवीत । वैलक्षण्यमपि नास्ति, परमाणुप्रचयमात्रत्वात् समस्तवस्तूनामिति चेत् , नन्वेवमपि तस्मादयं महान् , अल्पो वा प्रचय इत्यादिप्रत्यभिज्ञा भवतु प्रामाण्यशोभाभारभागिनी। प्रचयोऽपि न कश्चित् , नीलपीतादिपरमाणूनामेव तात्त्विकत्वादिति चेत्, अहो ! उत्तमर्णाकीर्णदुर्गताधमर्ण इवायं स्वयं तत्तदुक्तमपलप्यापलप्य निनक्षुभिक्षुः । यदि हि सादृश्यादिकं न किञ्चिदस्ति, कथं तर्हि त्वयैव उत्तरीचक्रे । विकल्पोत्प्रेक्षा लक्ष्यमस्ति नतु बाह्यं ग्राह्यमिति चेत् ; नीलपीतादिविशेषोऽपि तथैवास्तु। बहिस्तदभावे कथं नैयत्येन विकल्पोल्लेख इति चेत्; सादृश्यादौ कथम् ? । वासनातश्चेत् ; अन्यत्रापि तत एवास्तु । वासनाया अपि नैयत्येन उद्बोधकं किञ्चित् बहिरेष्टव्यमिति चेत् को नामात्र परिपन्थी। किन्तु सादृश्यादिकमपि स्वीकुरु, ततो नीलपीतादिविशेषो वा बहिस्त्यज्यताम् , सादृश्यादिकमपि वा मन्यताम् ; नान्यथा प्रमाणमुद्रा मृष्यते । सिद्धे चैवं सादृश्यादौ यत्र पूर्वाकारेण संकलनम् , तत्र प्रत्यभिज्ञा प्रमाणम् । अन्यत्र तु प्रत्यक्षमेव । मा भूद् वा बहिः सादृश्यादि तथाप्यनुमानवत् प्रमाणमेवेयम् । नानुमानपरिच्छेद्यमपि अग्नित्वादिसामान्यं बहिरस्ति तथापि यथा प्रणालिकया तद्विकल्पस्याग्न्यादिवलक्षणे प्रतिबन्धात् तत्प्रमाणम् , एवं सादृश्यादेरसत्त्वेऽपि सदृशादिस्वलक्षणे तद्विकल्पस्य प्रतिबन्धात् किं नेयमपि तपस्विनी तथा स्यात् । अथ अयमनेन सदृश इति प्रत्यभिज्ञा, प्रत्यक्षं वा। कचित् किञ्चिदिति ब्रूमः । अनुभूततया परोक्षमप्येकं साक्षादिवाध्यवस्यतः पश्यतश्चापरं प्रत्यभिज्ञवेयम् । भवति च परोक्षस्यापि साक्षादिवाध्यवसाये प्रत्यक्षसर्वनाम्ना परामर्शः । एषोऽग्निरनुमीयते; अयमस्य वाक्यस्यार्थ इति । उभयं तु प्रत्यक्षेण लक्षयतः प्रत्यक्षमेवेतदिति ॥६॥
तर्कमपि कारणगोचरस्वरूपः प्ररूपयन्तिउपलम्भानुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधन.. संबन्धाद्यालम्बनं इदमस्मिन् सत्येव भवतीत्याद्या