________________
रत्राकरावतारिकायुक्तः ।
५ त्वात् प्रत्यभिज्ञानमेवेति । मीमांसकोऽप्यनेन सदृशः स गौरित्यनधिगतं गवि सादृश्यमवस्यदुपमानं प्रमाणमाचक्षाणोऽनेन महिषेण विसदृशः स गौरित्यनधिगतमहिषवैसदृश्यव्यवसायकस्य प्रमाणान्तरताप्रसङ्गेन पराकरणीयः । सादृश्याभावो वैसदृश्यामित्यभावप्रमाणपारच्छेद्यमेवैतदिति चेत्, वैसदृश्याभावः सादृश्यमितीदमपि तत्परिच्छेद्यमेव किं न स्यात् । यदि वैसदृश्याभावः सादृश्यं स्यात् , स गौः सदृशो गवयेनेति विधिमुखेन नोल्लिखेदिति चेत्, तदितरत्रापि तुल्यम् । स एवायं जिनदत्त इति तूर्ध्वतासामान्योदाहरणम् । आदिशब्दात् स एवायं वह्निरनुमीयते मया, स एवानेनाप्यर्थः कथ्यते इत्यादि स्मरणसचिवानुमानागमादिजन्यम् ; तस्माद्दीर्घ ह्रस्वमणु महन्नेदीयो दवीयो वेदं दूरादयं तिग्मस्तनूनपात्सुरभीदं चन्दनमित्यादि च सङ्कलनमात्रोदाहरणं मन्तव्यम् । अथ कथं प्रत्यभिज्ञाप्रामाण्यमशक्यन्तः शाक्याः शक्याः शमयितुम् । ते हि प्राहुः-दलितकररुहशिरोरुहशिखरादिवत् सर्वत्र भ्रान्तैवेयमिति । अहो ! तर्ककर्कणकार्कश्यममीषाम् , एवं हि विहायस्तलावलम्बमानमृगाङ्कमण्डलयुगलावलोकिप्रत्यक्षवत् सकलमपि प्रत्यक्षं भ्रान्तिमत् किं न भवेत् । अथ लक्षणयुक्ते बाधासम्भवे तल्लक्षणमेव दूषितं भवति, संकलनं हि प्रत्यभिज्ञानचिहं तद्युक्तमपि च कररहादौ प्रत्यभिज्ञानमबाध्यतेति तल्लक्षणमेव बाधितम् । प्रत्यक्षे तु यत्र बाधा, न तत्र तल्लक्षणमझूणम् ; क्षणदाप्रियद्वयावलोकनायामभ्रान्तत्वाभावात् , यत्र तु तदखूणं न तत्र बाधा, स्तम्भादिप्रत्यक्षवदिति चेत् ; नैवम्। न खलु संकलनमात्रमेव प्रत्यभिज्ञाप्रमाणलक्षणमाचक्ष्महे, किन्तु स्वपरव्यवसायिज्ञानत्वरूपप्रमाणसामान्यलक्षणसद्भावे सति यत्संकलनम् , न च कररुहादिवेदने तदस्ति । विशिष्टस्य विपर्ययशून्यस्यावसायस्याभावादिति कथं लक्षणयुक्तेऽस्मिन्नपि बाधरोधः स्यात्।क्षणभगुरत्वाद्भावानामैक्यगृहीतिर्भ्रान्तिरेवेति चेत् । अत्र तावत् क्षणभङ्गभङ्ग एवाभङ्गुरमुत्तरम् । अस्तु वा क्षणभङ्गस्तथापि नेयतैव निःशेषप्रत्यभिज्ञानप्रामाण्यमुत्पुंसयितुं शक्यम् । तथाहि-"पदार्थेषु किमैक्यगृहीतिभ्रान्तिनिमित्तमिष्यते ? अपरापरोत्पादुकक्षणानां सादृश्यमिति चेत्, किं सादृश्यमस्ति किञ्चित् ? तथेति चेत्, कचित्तेन सदृशोऽयमिति प्रत्यभिज्ञा