________________
प्रमाणनयतत्त्वालोकालङ्कारः
हनिमहार्थम् । तस्य खलु गोसदृशो गवय इति उपमानमित्यभिमानः । सच्चायुक्तविधानः । गोविसदृशो महिष इत्यस्य प्रमाणान्तरत्वापत्तेः । अथ गवये गोसदृशो गवय इति विज्ञानं प्रत्यक्षफलमपि संज्ञासंज्ञिसंबन्धप्रतिपत्तिरूपे फले प्रमाणान्तराप्रसाध्ये साधकतमत्वात् उपमानतां प्रतिपद्यते, तर्हि महिषे गोविसदृशमहिषोपलक्षणं प्रत्यक्षफलमपि तत्रैव तथाविधे फले साधकतमत्वात् प्रमाणान्तरमस्तु । न चैतदुपमानेऽन्तर्भा वयितुं शक्यम् । उपमानस्य सादृश्यविषयतया व्यवस्थानात् । प्रस्तुतस्य तु बैसदृश्यव्यवसायकत्वात् । नच वैसदृश्यावसायस्य संज्ञा-संज्ञिसंबन्धप्रतिपत्तिसाधकतमत्वमसिद्धम् । यतः समहिषमाहेयीमण्डले क्वापि विपि - नप्रदेशेऽनच्छायां छायायां रोमन्थायमाने नालिकेरद्वीपवासी कश्चित् केनचित्प्रेषितस्तद्विपिनप्रतिष्ठगोष्ठात् महिषमानयेति; सच तज्ज्ञं तमेव पृष्टवान् कीदृग् महिष इति; तेन च गोविसदृशो महिष इत्युक्ते तद्विपिनगोष्ट प्राप्त आप्तातिदेशवाक्यस्मरणसहकारी यमेव गोभ्यो विसदृशं पशुं पश्यति, तमेव महिषशब्दवाच्यतया प्रतिपद्यत इति कः प्रतिविशेषो द्वयोरपि सङ्केतप्रतिपत्तौ ।
"
तदुक्तम्
“उपमानं प्रसिद्धार्थ-साधर्म्यात्साध्यसाधनम् । तद्वैधम्र्यात्प्रमाणं किं स्यात् संज्ञिप्रतिपादनम् ? || १ || इति । यदा वा यादृग्गौस्तादृग्गवय इति वाक्याहितसंस्कारः प्रतिपत्ता तुरङ्गं गोविलक्षणमीक्षमाणो गवयसंज्ञासंबन्धप्रतिषेधं विधत्ते, नायं गवयवाग्वाच्यः पिण्ड इति; तदा गवयसंज्ञासंबन्धप्रतिषेधफलं किमेतप्रमाणं स्यात् ? तत एवंविधसंवेदनानां सङ्कलनात्मकतया प्रत्यभिज्ञानतैवोपपद्यते; अन्यथा तु प्रमाणेयत्ता प्रलीयेत । यदैव हि यादृग् गौस्तादृग्गवय इति तेन शुश्रुवे, तदैव सामान्यतश्चेतसि स्फुरति पिण्डे संबन्धप्रत्तिपत्तिरभूत्; यथा पृथुबुनोदराकारं वृत्तकण्ठं भावं कुम्भं विभावयेरित्या - कर्णनात् कुम्भे, ततः कान्तारविहारिणोऽस्य गवयसाक्षात्कारे प्राक्तनसामान्याकारसंबन्धस्मरणे च स एष गवयशब्दवाच्य इति सङ्कलनाज्ञानरूपं प्रत्यभिज्ञानमुन्मज्जति, एवं गोबिसदृशो महिष इत्याद्यपि तथारूप -