________________
रवाकरावतारिकायुक्तः ।, ३ पुस्फुरुः, अनुमाने तुस एवैकश्चकास्तीत्युक्तमिति चेत् , ननूत्तरमपि तत्रोक्तमेव मा विस्मार्षीः । ननु न सर्वत्रैव कतिपयविशेषावसायव्याकुलं स्मरणम् ; कचिद्यावदनुभूतरूपादिविशेषमपि तस्योत्पत्तेस्ततस्तत्र का गतिरिति चेत्। नैवम् । नहि रूपादय एव विशेषा वस्तुनः, किन्तु अनुभूयमानताऽपि।न चासो स्मरणे कापि चकास्ति । तस्यापि प्राचीनानुभवस्वभावतापत्तेः । किन्त्वनुभूततैव भावस्य तत्र भाति । इति सिद्धमनुमानस्येव स्मरणस्यापि प्रामाण्यम् । नच तस्याप्रामाण्येऽनुमानस्यापि प्रामाण्यमुपापादि । संबन्धस्याप्रमाणस्मरणसंदर्शितस्यानुमानानङ्गत्वात्; संशयितालिङ्गवत् । नच प्राक्प्रवृत्तसंबन्धग्राहिप्रमाणव्यापारोपस्थापनमात्रचरितार्थत्वान्नास्य तत्र प्रामाण्येन प्रयोजनमिति वाच्यम् । अप्रमाणस्य तदुपस्थापनेऽपि सामर्थ्यासंभवात् । किंच। अर्थोपलब्धिहेतुत्वं प्रमाणलक्षणं लक्षयांचकृढ़े । तच्च धारावाहिप्रत्यक्षस्येवास्याप्यसूणमीक्ष्यत एवेति किमन्यैरसत्प्रलापैरिति ॥ ४॥
अथ कारणादिभिः प्रत्यभिज्ञानं ज्ञापयन्तिअनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं ।
संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ ५ ॥ अनुभवश्च प्रमाणार्पिता प्रतीतिः, स्मृतिश्चानन्तरोक्तैव; ते हेतुर्यस्येति कारणोपदेशः । तिर्यक्सामान्यं च गवादिषु गोत्वादिस्वरूपसदृशपरिणामात्मकम् । ऊर्ध्वतासामान्यं च परापरविवर्त्तव्यापि मृत्स्नादिद्रव्यम्; एतदुभयमादिर्यस्य विसदृशपरिणामादेर्धमस्तोमस्य स तिर्यगूर्वतासामान्यादिर्गोचरो यस्येति विषयाऽऽख्यानम् । संकलनं विवक्षितधर्मयुक्तत्वेन वस्तुनः प्रत्यवमर्शनमात्मा स्वभावो यस्येति स्वरूपनिरूपणम् । ॥ ५ ॥ . अत्रोदाहरन्तियथा तजातीय एवायं गोपिण्डः, गोसदृशो गवयः, .
स एवायं जिनदत्त इत्यादि ॥ ६ ॥ अत्र तज्जातीय एवायं गोपिण्ड इत्यस्मिन् तिर्यक्सामान्योदाहरणे दर्शितेऽपि गोसदृशो गवय इति यत्तत्रैवोदाहरणान्तरं तन्नयायिककदा