________________
प्रमाणनयतत्त्वालोकालङ्कारःअत्रोदाहरन्ति
तत्तीर्थकरबिम्बमिति यथा ॥ ४ ॥ तदिति यत् प्राक् प्रत्यक्षीकृतम् , स्मृतम् , प्रत्यभिज्ञातम् , वितकि. तम्, अनुमितम् , श्रुतं वा भगवतस्तीर्थकृतो बिम्बं प्रतिकृतिः तस्य परामर्शः; इत्येवंप्रकारं तच्छब्दपरामृष्टं यद्विज्ञानं तत्सर्व स्मरणमित्यर्थः । ये तु यौगाः स्मृतेरप्रामाण्यमध्यगीषत न ते साधु व्यधिषत । यतो यत्तावत् केचिदनर्थजत्वादस्याः तदाम्नासिषुः । तत्र हेतुः, 'अभूत् वृष्टिरुदेष्यति शकटम् ' इत्याद्यतीतानागतगोचरानुमानेन सव्यभिचार इत्यनुचित एवोच्चारयितुम् । परे तु मेनिरे-न स्मृतिः प्रमाणम् ; पूर्वानुभवविषयोपदर्शनेनार्थ निश्चिन्वत्या अर्थपरिच्छेदे पूर्वानुभवपारतन्त्र्यात् । अनुमानज्ञानं तूत्पत्तौ परापेक्षं, स्वविषये तु स्वतन्त्रमेव ।स्मृतेरिव तस्मात्पूर्वानुभवानुसन्धानेनार्थप्रतीत्यभावात् ।
तदुक्तम्- ल०i chit [ ] कुमारिका "पूर्वविज्ञानविषयं विज्ञानं स्मृतिरिष्यते । पूर्वज्ञानाद्विना तस्याः प्रामाण्यं नावगम्यते ॥ १॥ तत्र यत्पूर्वविज्ञानं तस्य प्रामाण्यमिष्यते ।
तदुपस्थानमात्रेण स्मृतेः स्याञ्चरितार्थता ॥ २॥ इति। तदपि न पेशलम् । स्मृतेरप्युत्पत्तिमात्रेऽनुभवसव्यपेक्षत्वात् । तदाहितसंस्कारात्तदुत्पत्तेः । स्वविषयपरिच्छेदे त्वस्याः स्वातन्त्र्यमेव । ननु नात्र स्वातन्त्र्यम् ; अस्याः पूर्वानुभवभावितभावभासनायामेवाभ्युद्यतत्वात् । एवं तार्ह व्याप्तिप्रतिपादिप्रमाणप्रतिपन्नपदार्थोपस्थापनमात्रे प्रवृत्तेरनुमानस्यापि कुतस्त्या स्वातन्त्र्यसङ्गतिः । अथ व्याप्तिग्राहकेणानयत्येन प्रतिपन्नात्तनूनपातो नैयत्यविशेषेणानुमाने परिस्फुरणसंभवात् कुतो न स्वातन्त्र्यमिति चेत्, तर्हि अनुभवे भूयो विशेषशालिनः स्मरणे तु कतिपयैरेव विशेषैर्विशिष्टस्य वस्तुनो भानात् कुतो नास्यापि तत् स्यात्। ननु तेऽपि विशेषास्तावदनुभूतौ प्रत्यभुरेव । अन्यथा स्मरणमेव तन्न स्यात् इति चेत्, नियतदेशोऽपि पावको व्याप्तिग्राहिणि प्रत्यभादेव । अन्यथाऽनुमानमेव तन्न स्यात् इति किन्न चेतयसे।अथ तत्र सर्वे सार्वदिकाः सार्वत्रिकाश्च पावकाः