SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ अहम् अथ तृतीयः परिच्छेदः। प्रत्यक्षानन्तरं परोक्षं लक्षयन्ति अस्पष्टं परोक्षम् ॥१॥ प्राक्सूत्रितस्पष्टत्वाभावभ्राजिष्णु यत् प्रमाणं तत् परोक्षं लक्षयितध्यम् ॥१॥ अथैतत् प्रकारतः प्रकटयन्तिस्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत् पञ्च प्रकारम् ॥ २॥ स्पष्टम् ॥२॥ अर्थतेषु तावत् स्मरणं कारणगोचरस्वरूपैः प्ररूपयन्तितत्र संस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारंवेदनं स्मरणम् ॥ ३ ॥ ___ तत्रेति प्राक्तनेभ्यः संस्कारप्रबोधसंभूतत्वादिना गुणेन स्मरणं निरियन्ति । संस्कारस्यात्मशक्तिविशेषस्य प्रबोधात् फलदानाभिमुख्यलक्षणात् संभूतमुत्पन्नमिति कारणनिरूपणम् । अनुभूतः प्रमाणमात्रेण परिच्छिन्नोऽर्थश्चेतनाऽचेतनरूपो विषयो यस्येति विषयव्यावर्णनम् । तदित्याकारं तदित्युल्लेखवत् । तदित्युल्लेखवत्ता चास्य योग्यतापेक्षयाऽऽख्यायि । यावता 'स्मरसि चैत्र! कश्मीरेषु वत्स्यामस्तत्र द्राक्षा भोक्ष्यामहे' इत्यादिस्मरणे तच्छब्दोल्लेखो नोपलक्ष्यत एव, किन्त्विदं स्मरणं तेषु कश्मीरेषु इति ता द्राक्षा इति तच्छब्दोल्लेखमहत्येव । नचैवं प्रत्यभिज्ञानेऽपि तत्प्रसङ्गः । तस्य स एवायमित्युल्लेखशेखरत्वात्। इति स्वरूपप्रतिपादनम् ॥३॥
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy