________________
७
. रत्नाकरावतारिकायुक्तः । कारं संवेदनमूहापरनामा तर्कः ॥ ७॥ उपलम्भ नुपलम्भाभ्यां प्रमाणमात्रेण ग्रहणाग्रहणाभ्यां सम्भव उत्पत्तिर्यस्येति कारणकीर्तनम् । त्रिकालीकलितयोः कालत्रयीवर्तिनोः साध्यसाधनयोर्गम्यगमकयोः सम्बन्धोऽविनाभावो व्याप्तिरित्यर्थः । स आदियस्याशेषदेशकालवन्तिवाच्यवाचकसंबन्धस्यालम्बनं गोचरः यस्य तत्तथेति विषयाविष्करणम्। इदमस्मिन् सत्येव भवतीत्यादिशब्दादिदमस्मिनसति न भवत्येवेत्याकारम् ; साध्यसाधनसंबन्धालम्बनम् , एवंजातीयः शब्द एवंजातीयस्यार्थस्य वाचकः; सोऽपि तथाभूतस्तथाभूतस्य वाच्य इत्याकारं वाच्यवाचकभावालम्बनं च संवेदनमिहोपादीयतेति स्वरूपप्रतिपादनम् । एवंरूपं यद्वेदनं सतर्कः कीर्त्यते; ऊह इति च संज्ञान्तरं लभते। ये तु ताथागताः प्रामाण्यमूहस्य नोहाञ्चक्रिरे। तेषामशेषशून्यत्वपातकापत्तिः। आः ! किमिदमकाण्डकूष्माण्डाडम्बरोड्डामरमभिधीयते । कथं हि तर्कप्रामाण्यानुपगममात्रणेदृशमसमञ्जसमाएनीपद्येत ? । शृणु ! श्रावयामि किल । तर्काप्रामाण्ये तावन्नानुमानस्य प्राणाः; प्रतिबन्धप्रतिपत्त्युपायापायात् । तदभावे न प्रत्यक्षस्यापि । प्रत्यक्षेण हि पदार्थान् प्रतिपद्य प्रमाता प्रवर्त्तमानः क्वचन संवादादिदं प्रमाणमिति, अन्यत्र तु विसंवादादिदमप्रमाणमिति व्यवस्थाग्रन्थिमाबध्नीयात् । न खलुत्पत्तिमात्रेणैव प्रमाणाप्रमाणविवेकः कत्तुं शक्यः । तदशायां उभयोः सौसदृश्यात् । संवादविसंवादापेक्षायां च तन्निश्चये निश्चित एवानुमानोपनिपातः । नचेदं प्रतिबन्धप्रतिपत्तौ तर्कस्वरूपोपायापाये । अनुमानाध्यक्षप्रमाणाभावे च प्रामाणिकमानिनस्ते कौतस्कुती प्रमेयव्यवस्थापीत्यायाता त्वदीयहृदयस्येव सर्वस्य शून्यता । सापि वा न प्राप्नोति । प्रमाणमन्तरेण तस्या अपि प्रतिपत्तुमशक्यत्वादिति, अहो ! महति प्रकटकष्टसङ्कटे प्रविष्टोऽयं तपस्वी किं नाम कुर्यात् । अथ___“धूमाधीर्वह्निविज्ञानं धूमज्ञानमधीस्तयोः।।
प्रत्यक्षानुपलम्भाभ्यामिति पञ्चभिरन्वयः॥१॥ निर्णेष्यते। अनुपलम्भोऽपि प्रत्यक्षविशेष एवेति प्रत्यक्षमेव व्याप्तितात्पर्यपर्यालोचनचातुर्यवय्ये, किं तर्कोपक्रमेणेति चेत्, ननु प्रत्यक्ष तावन्नियतधूमानिगो