________________
प्रमाणनयतत्वालोकालङ्कारः
चरतया प्राक् प्रावृतत् । तद्यदि व्याप्तिरपि तावन्मात्रैव स्यात्तदाऽनुमानमपि तत्रैव प्रवर्त्तेतेति कुतस्त्यं धूमान्महीधरकन्धराऽधिकरणाशुशुणिलक्षणम् । तद्बलाद्बभूवान् विकल्पः सार्वत्रिकीं व्याप्तिं पर्याप्नोति निर्णेतु मिति चेत्; को नामैवं नामंस्त तर्कविकल्पस्योपलम्भानुपलम्भसम्भवत्वेन स्वीकारात्, किन्तु व्याप्तिप्रतिपत्तावयमेव प्रमाणं कक्षीकरणीयः । अथ तथाप्रवर्त्तमानोऽयं प्राक्प्रवृत्तप्रत्यक्षव्यापारमेवाभिमुखयतीति तदेव तत्र प्रमाणम् इति चेत्, तर्हि अनुमानमपि लिङ्गग्राहिप्रत्यक्षस्यैव व्यापारमामुखयतीति तदेव वैश्वानरवेदने प्रमाणम्, नानुमानम् इति किन्न स्यात् । अथ कथमेवं वक्तुं शक्यम् । लिङ्गप्रत्यक्षं हि लिङ्गगोचरमेव, अनुमानं तु साध्यगोचरम् इति कथं तत्तद्व्यापारमामुखयेत्, तर्हि प्रत्यक्षं पुरोवर्त्तिस्वलक्षणेक्षणक्षुण्णमेव । तर्कविकल्पस्तु साध्यसाधनसामान्यावमर्षमनीषीति कथं सोऽपि तद्द्व्यापारमुद्दीपयेत् । अथ सामान्यममान्यमेव, असत्त्वादिति कथं तत्र प्रवर्तमानस्तर्कः प्रमाणं स्यात् इति चेत्; अनुमानमपि कथं स्यात् । तस्यापि सामान्यगोचरत्वाव्यभिचारात् 'अन्यत् सामान्यलक्षणं सोऽनुमानस्य विषयः' इति धर्मकीर्त्तिना कीर्त्तनात् । तत्त्वतोऽप्रमाणमेवैतद्, व्यवहारेणैवास्य प्रामाण्यात्, सर्व एवायमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेनेति वचनादिति चेत्, तर्कोऽपि तथाऽस्तु । अथ नायं व्यवहारेणापि प्रमाणं, सर्वथा वस्तुसंस्पर्शपराङ्मुखत्वात् इति चेत्, अनुमानमपि तथाऽस्तु । अवस्तुनिर्भासमपि परम्परया पदार्थे प्रतिबन्धात् प्रमाणमनुमानमिति चेत्, किं न तर्कोऽपि । अवस्तुत्वं च सामान्यस्याद्यापि केसरिकिशोरवक्रक्रोडदंष्ट्राङ्कराकर्षायमाणमस्ति । सदृशपरिणामरूपस्यास्य प्रत्यक्षादिपरिच्छेद्यत्वात् इति तत्त्वत एवानुमानम्; तर्कश्च प्रमाणं प्रत्यक्षवदिति पाषाणरेखा ॥ ७ ॥
अदाहरन्ति
यथा यावान् कश्चिद् धूमः स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसत्यसौ न भवत्येव ॥८॥
अत्राद्यमुदाहरणमन्वयव्याप्तौ द्वितीयं तु व्यतिरेकव्याप्तौ ॥ ८ ॥