________________
· रवाकरावतारिकायुक्तः । अथानुमानस्य लक्षणार्थ तावत् प्रकारौ प्रकाशयन्ति
अनुमानं द्विप्रकारं स्वार्थ परार्थ च ॥ ९ ॥ नन्वनुमानस्याध्यक्षस्येव सामान्यलक्षणमनाख्यायैव कथमादित एव प्रकारकीर्तनमिति चेत् । उच्यते । परमार्थतः स्वार्थस्यैवानुमानस्य भावात् , स्वार्थमेव हनुमानं कारणे कार्योपचारात् परार्थ कथ्यते। यद्वक्ष्यन्ति तत्रभवन्तः “पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात्” इति । नहि गोरुपचरितगोत्वस्य च वाहीकस्यकं लक्षणमस्ति । यत्पुनः स्वार्थेन तुल्यकक्षतयाऽस्योपादानम् , तद्वादे शास्त्रे चानेनैव व्यवहाराल्लोकेऽपि च प्रायेणास्योपयोगात् तद्वत्प्राधान्यख्यापनार्थम्। तत्र अनु हेतुग्रहणसंबन्धस्मरणयोः पश्चान्मीयते परिच्छिद्यतेऽर्थोऽनेनेत्यनुमानम् । स्वस्मै प्रमातुरात्मने इदं, स्वस्य वार्थोऽनेनेति स्वार्थम् । स्वावबोधनिबन्धनमित्यर्थः । एवं परार्थमपि । अत्र चार्वाकश्चर्चयति-नानुमानं प्रमाणम् ; गौणत्वात् । गौणं अनुमानम् ; उपचरितपक्षादिलक्षणत्वात् ।
तथाहि"ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते ।
व्याप्तिकाले भवेद्धर्मः साध्यसिद्धौ पुनर्द्वयम् ॥१॥ इति । अगौणं हि प्रमाणं प्रसिद्धम् , प्रत्यक्षवदिति। तत्रायं वराकश्चावाकः स्वारूढां शाखा खण्डयन्नियतं भौतमनुकरोति । गौणत्वादिति हि साधनमभिदधानो ध्रुवं स्वीकृतवानेवायमनुमानं प्रमाणमिति कथमेतदेव दलयेत् । नच पक्षधर्मत्वं हेतुलक्षणमाचक्ष्महे, येन तत्सिद्धये साध्यधर्मविशिष्टे धर्मिणि प्रसिद्धमपि पक्षवं धर्मिण्युपचरेम । अन्यथाऽनुपपत्त्येकलक्षणत्वाद्धेतोः । नापि व्याप्तिं पक्षेणैव ब्रूमहे, येन तत्सिद्धये धर्मे तदारोपयेमहि । साध्यधर्मेणैव तदभिधानात् । नन्वानुमानिकप्रतीतौ धर्मविशिष्टो धर्मी, व्याप्ती तु धर्मः साध्यमित्यभिधास्यत इत्येकत्र गौणमेव साध्यत्वमिति चेत्। मैवम् । उभयत्र मुख्यतल्लक्षणभावेन साध्यत्वस्य मुख्यत्वात्। तत्किमिह द्वयं साधनीयम्?। सत्यम्। नहि व्याप्तिरपि परस्य प्रतीता, ततस्तत्प्रतिपादनेन धर्मविशिष्टं धर्मिणमयं प्रत्यायनीय इत्यसिद्धं गौणत्वम् । अथ नोपादीयत एव तसिद्धौ कोऽपि हेतुस्तार्ह कथं अप्रमाणिका प्रामाणिकस्येष्टसिद्धिः स्यादिति नानुमानप्रामाण्यप्रतिषेधः साधीयस्तां दधाति ।