________________
प्रमाणनयतत्त्वालोकालङ्कारः"नानुमान प्रमेत्यत्र हेतुः स चेत् । कानुमामानताबाधनं स्यात् तदा । नानुमानं प्रमेत्यत्र हेतुर्न चेत्
कानुमामानताबाधनं स्यात्तदा ॥१॥ इति संग्रहश्लोकः । कथं वा प्रत्यक्षस्य प्रामाण्यनिर्णयः ?। यदि पुनरर्थक्रियासंवादात्तत्र तन्निर्णयस्तर्हि कथं नानुमानप्रामाण्यम् ?। प्रत्यपीपदाम च
प्रत्यक्षेपि परोक्षलक्षणमतेर्येन प्रमारूपता । प्रत्यक्षेऽपि कथं भविष्यति मते तस्य प्रमारूपता ॥९॥ इति । तत्र स्वार्थ व्यवस्थापयन्तितत्र हेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं
स्वार्थम् ॥ १० ॥ हिनोत्यन्त वितणिजर्थत्वाद् गमयति परोक्षमर्थमिति हेतुः, अनन्तरमेव निर्देक्ष्यमाणलक्षणस्तस्य ग्रहणं च प्रमाणेन निर्णयः, संबन्धस्मरणं च यथैव संबन्धो व्याप्तिनामा प्राक् तर्केणाऽतर्कि; तथैव परामर्शस्ते कारणं यस्य तत्तथा । साध्यस्याख्यास्यमानस्य विशिष्टं संशयादिशून्यत्वेन ज्ञानं स्वार्थमनुमानं मन्तव्यम् ॥१०॥ - हेतुस्वरूपं निरूपयन्ति
निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः ॥११॥
अन्यथा साध्यं विना, अनुपपत्तिरेव, नमनागप्युपपत्तिः । प्रयत्नानन्तरीयकत्वे साध्ये विपक्षैकदेशवृत्तरनित्यत्वस्यापि गमकत्वापत्तेः । ततो निश्चिता निर्णीताऽन्यथानुपपत्तिरेवैका लक्षणं यस्य स तादृशो हेतु यः । अन्यथाऽनुपपत्तिश्चात्र हेतुप्रक्रमात् साध्यधर्मेणैव सार्ध ग्राह्या । तेन तदितरार्थाऽन्यथाऽनुपपन्नैः प्रत्यक्षादिज्ञानैर्नातिव्याप्तिः ॥११॥ एतद्वयवच्छेद्यं दर्शयन्ति
न तु त्रिलक्षणकादिः॥१२॥ त्रीणि पक्षधर्मत्व-सपक्षसत्त्व-विपक्षासत्त्वानि लक्षणानि यस्य सौगतसम्मतस्य हेतोः ।आदिशब्दाद्यौगसङ्गीतपञ्चलक्षणकहेत्ववरोधः। ते.