________________
रत्नाकरावतारिकायुक्तः । ११ नाऽबाधितविषयत्वाऽसत्प्रतिपक्षत्वयोरपि तल्लक्षणत्वकथनात्। तथाहि । वह्निमत्त्वे साध्ये धूमवत्त्वं पक्षस्य पर्वतस्य धर्मः,न शब्दे चाक्षुषत्ववदतद्धर्मः। सपक्षे पाकस्थाने सन्, नतु प्राभाकरेण शब्दनित्यत्वे साध्ये श्रावणत्ववत्ततो व्यावृत्तम्। विपक्षे पयस्वति प्रदेशेऽसन् , नतु तत्रैव साध्ये प्रमेयत्ववत् तत्र वर्तमानम्।अबाधितविषयम् , प्रत्यक्षागमाभ्यां अबाध्यमानसाध्यत्वाद्, न तु अनुष्णस्तेजोऽवयवी द्रव्यत्वाजलवत्, विप्रेण सुरा पेया द्रवत्वात्तद्वदेवेति वत् ताभ्यां बाधितविषयम्।असत्प्रतिपक्षम् ,साध्यविपरीतार्थोपस्थापकानुमानरहितम्, न पुनर्नित्यः शब्दोऽनित्यधर्मानुपलब्धेरित्यनुमानसमन्वितमनित्यः शब्दो नित्यधर्मानुपलब्धेरित्यनुमानमिव सत्प्रतिपक्षम् , इति लक्षणत्रयपञ्चकसद्भावाद् गमकम् । तत एतादृक्षलक्षणलक्षितमेवाभूणं लिङ्गम्, इति सौगतयौगयोरभिप्रायः । न चायं निरपायः ॥ १२ ॥ एतदुपपादयन्ति
तस्य हेत्वाभासस्यापि संभवात् ॥१३॥ ___अनेन अतिव्याप्तिं प्रागुक्तलक्षणस्याऽऽचख्युः । स श्यामः तत्पुत्रत्वात् प्रेक्ष्यमाणेतरतत्पुत्रवदित्यत्र समग्रतल्लक्षणवीक्षणेऽपि हेतुत्वाभावात् । अत्र विपक्षे असत्त्वं निश्चितं नास्ति, नहि श्यामवासत्त्वे तत्पुत्रत्वेन अवश्यंनिवर्तनीयमित्यत्र प्रमाणमस्तीति सौगतः । स एवं निश्चितान्यथानुपपत्तिमेव शब्दान्तरोपदेशेन शठः शरणीकरोतीति सैव भगवती लक्षणत्वेनास्तु। यौगस्तु गर्जति-अनौपाधिकस्सम्बन्धो व्याप्तिः। न चायं तत्पुत्रत्वेऽस्ति । शाकाद्याहारपरिणामाग्रुपाधिनिबन्धनत्वात् । साधनाऽव्यापकः साध्येन समव्याप्तिकः किलोपाधिरभिधीयते। तथाचात्र शाकाद्याहारपरिणाम इति उपाधिसद्भावात् न तत्पुत्रत्वे विपक्षासत्त्वसम्भव इति । सोऽपि न निश्चितान्यथानुपपत्तेरतिरिक्तमुक्तवानिति सैवैकाऽस्तु। नहि अनौपाधिकसम्बन्धे सति किंचिदवशिष्यते, यदपोहाय शेषलक्षणप्रणयनमक्षूणं स्यात्। पक्षधर्मत्वाभावे रसवतीधूमोऽपि पर्वते सप्ताचिषं गमयेत् इत्यभिदधानो बौद्धो न बुद्धिमान् । यतः पक्षधर्मत्वभावेऽपि किं नैष तत्र तं गमयेत् ? । ननु कौतुकमेतत् , कथं हि नाम पक्षधर्मतोपगमे रसवतीधर्मः सन् धूमो महीध्रकन्धराधिकरणं धनजयं ज्ञापयतु इति चेत् ;