________________
१२
प्रमाणनयतत्त्वालोकालङ्कार:एवं तर्हि जलचन्द्रोऽपि नभश्चन्द्र माजिज्ञपत् । जलचन्द्रस्य जलधर्मत्वात् । अथ जलनभश्चन्द्रान्तरालत्तिनस्तावतो देशस्यकस्य धर्मित्वेन जलचन्द्रस्य तद्धर्मत्वनिश्चयात् कुतो न तद् ज्ञापकत्वमिति चेद्; एवं तर्हि रसवतीपर्वतान्तरालवर्तिवसुन्धराप्रदेशस्य धर्मित्वमस्तु। तथा च महानसधूमस्यापि पर्वतधर्मतानिर्णयात् जलचन्द्रवत् कथं न तत्र तद्गमकत्वं स्यात् ।। पक्षधर्मता खलूभयत्राऽपि निमित्तम् ; ततो यथाऽसौ स्वसमीपदेशे धूमस्य धूमध्वजं गमयतोऽम्लानतनुरास्ते, तथा व्यवहितदेशेऽपि पर्वतादा तदवस्थैव । अन्यथा जलचन्द्रेऽपि नासौ स्याद् । देशव्यवधानात् । अथ नेयमेवात्र गमकत्वाङ्गम् , किन्तु कार्यकारणभावोऽपि । कार्य च किमपि कीदृशम् । तदिह कृपीटजन्मा स्वसमीपप्रदेशमेव धूमकार्यमर्जयितुमधीशानः; नभश्चन्द्रस्तुव्यवहितदेशमपीति न महानसधूमो महीधरकन्धराकोणचारिणमाशुशुक्षणिं गमयतीति चेत्, नन्वेवं धूमस्तद्देशेनैव पावकेनान्यथानुपपन्नः, नीरचन्द्रमाः पुनरतद्देशेनाऽपि नभश्चन्द्रेण, इत्यन्यथाऽनुपपत्तिनिर्णयमात्रसद्भावादेव साध्यसिद्धेः संभवात् किं नाम जलाकाशमृगाङ्कमण्डलान्तरालादेमित्वकल्पनाकदर्थनमात्रनिमित्तेन पक्षधर्मतावर्णनेन ? । योगस्याप्येवमेव च पक्षधर्मत्वानुपयोगो दर्शनीयः । सपक्षसत्त्वमप्यनौपयिकम्। सत्त्वादेरगमकत्वापत्तेः । यस्तु पक्षाद् बहिष्कृत्य किमपि कुटादिकं दृष्टान्तयति। तस्यापूर्वः पाण्डित्यप्रकारः। कुटस्यापि पटादिवद् विवादास्पदत्वेन पक्षाबहिष्करणाऽनुपपत्तेः । तथा च कथमयं निदर्शनतयोपदश्येत ?। प्रमाणान्तरात्तत्रैव क्षणिकत्वं प्राक् प्रसाध्य निदर्शनतयोपादानमिति चेद्, ननु तत्रापि कः सपक्षीकरिष्यते?। यदि क्षणिकत्वप्रसाधनपूर्व पदार्थान्तरमेव, तदा दुर्वारमनवस्थाकदर्थनम् । अन्यथा तु न सपक्षः कश्चित्। यत एव च प्रमाणात् क्षणिकत्वनिष्टङ्कनं कुटे प्रकट्यते। तत एव पटादिपदार्थान्तरेष्वपि प्रकट्यताम् ,किमपरप्रमाणोपन्यासालीकप्रागल्भीप्रकाशनेन ?। यस्तु साध्यधर्मवान् सपक्ष इति सपक्षं लक्षयित्वा पक्षमेव सपक्षमाचक्षीत-साध्यधर्मवत्तया हि सपक्षत्वं,साध्यत्वेनेष्टतया तु पक्षत्वम् ; नच विरोधः, वास्तवस्य सपक्षत्वस्येच्छाव्यवस्थितेन पक्षत्वेन निराकर्तुमशक्यत्वादिति स महात्मा निश्चितं निविण्णः।सत्त्वादेःक्षणिकत्वाद्यनु