________________
रत्नाकरावतारिकायुक्तः। १३ . माने सपक्षसत्त्वावसायवेलायामेव साध्यधर्मस्थावबोधेनानुमानानर्थक्यात् । पक्षो हि साध्यधर्मवत्तया सपक्षश्चेत् निश्चिक्ये, हेतोश्च तत्र सत्त्वम्, तदा किं नाम पश्चाद्धेतुना साधनीयम्?। किञ्च । एवमनेन पक्षं लक्षयता "साध्यधर्मसामान्येन समानोऽर्थः सपक्षः” इति दिग्नागस्य,
___“अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तिताऽसती" ____ इति धर्मकीर्तेश्च वचो निश्चितं वञ्चितमेव स्यात् । यौगश्च केवलान्वयव्यतिरेकमनुमानमनुमन्यमानः कथं पञ्चलक्षणतां लिङ्गस्य संवाहयेत् ? इति निश्चितान्यथानुपपत्तिरेवैकं लिङ्गलक्षणमभूणम् । तत्त्वमेतदेव, प्रपञ्चः पुनरयमिति चेत्, तर्हि सागतेनाबाधितविषयत्वमसत्प्रतिपक्षत्वं, ज्ञातत्वं च; योगेन च ज्ञातत्वं लक्षणमाख्यानीयम् । अथ विपक्षानिश्चितव्यावृत्तिमात्रेणाबाधितविषयत्वमसत्प्रतिपक्षत्वं च, ज्ञापकहेत्वधिकारात् ज्ञातत्वं चलब्धमेवेति चेत् , तर्हि गमकहेत्वधिकारादशेषमपि लब्धमेवेति किं शेषेणापि प्रपञ्चेनेति ॥१३॥
साध्यविज्ञानमित्युक्तमिति साध्यमभिदधति.. अप्रतीतमनिराकृतमभीप्सितं साध्यम् ॥१४॥
अप्रतीतमनिश्चितम् , अनिराकृतं प्रत्यक्षाद्यबाधितम् , अभीप्सितं साध्यत्वेनेष्टम् ॥१४॥
अप्रतीतत्वं समर्थयन्तेशङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रति
पत्त्यर्थमप्रतीतवचनम् ॥१५॥ एवंविधमेव हि साध्यम् ; अन्यथा साधनवैफल्यात् ॥१५॥ अनिराकृतत्वं सफलयन्तिप्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यता
मित्यनिराकृतग्रहणम् ॥१६॥ । प्रत्यक्षादिविरुद्धस्य धनञ्जयादौ शैत्यादेः ॥१६॥