________________
"अनन्यसाधारणशीलसंपदे विनम्रविद्वजनमुद्रिताऽऽपदे ।
दिगम्बराडम्बरभङ्गसूरये प्रणम्य तस्मै गुरुदेवसूरये" ॥ २ ॥ "श्रीदेवसूरिसुगुरोः स्फुटनाममन्त्रनित्यस्मृतिस्तदुपदेशवशेन वृत्तिम् । श्रीमन्मुनीन्द्रमुनिचन्द्रकृतावमुष्यां सूरिर्महेश्वर इति प्रकटां चकार" ॥१॥
(आवश्यकसप्ततिटीकायां श्रीमहेश्वराचार्याः) "श्रीदेवसूरिप्रमुखा बभूवुरन्येऽपि तत्पादपयोजहंसाः । येषामबाधारचितस्थितीनां नालीकमैत्री मुदमाततान" ।।
(जिनधर्मप्रतिबोधे श्रीसोमप्रभसूरयः) “भेजेऽवकीर्णतां नग्नः कीर्तिकन्थामुपार्जयन् । तां देवसूरिराच्छिद्य तं निर्ग्रन्थं पुनर्व्यधात्" ॥ १ ॥
(श्रीउदयप्रभदेवाः) " श्रीकरीसप्तकवादिदेवाचार्यस्य शिष्योऽजनि रामचन्द्रः । सूरिविनेयो जयमङ्गलोऽस्य प्रशस्तिमेतां सुकृती व्यधत्त" ॥
"वस्त्रप्रतिष्ठाचार्याय नमः श्रीदेवसूरये । यत्प्रसादमिवाऽऽख्याति सुखप्रश्नेषु दर्शनम्" ॥
(समरादित्यसंक्षेपे श्रीप्रद्युम्नाचार्याः) "वादविद्यावतोऽद्यापि लेखशालामनुज्झता ।
देवसूरिप्रभोः साम्यं कथं स्याद् देवसूरिणा ? " ॥ "बार्हस्पत्याधिपत्यस्य पातने प्रथितोद्यमः ।
अपूर्वः कोऽपि लोकेऽस्मिन् देवसूरिः कृतोदयः” । १ एतद्ग्रन्थविरचनसमयः
"शशि-जलधि-सूर्यवर्षे शुचिमासे रविदिनसिताष्टम्याम् ।
जिनधर्मप्रतिबोधः क्लुप्तोऽयं गूजरेन्द्रपुरे” ॥ १४ ॥ इति प्रशस्तिप्रान्तभागे ग्रन्थकर्तृभिः स्वयमेवोदटङ्कि ।
२ स्याद्वादमञ्जरीप्रणेतृणां श्रीमलिषेणसूरीणां गुरवः, धर्माभ्युदयमहाकाव्यादिविनिर्मातारश्च ।
3 Ipigraphia Indica. Vol. ix, p: 79.
४ “वर्षे वारिधिपक्षयक्षगाणते श्रीवर्धमानस्थितिश्चक्रेऽमुं” इत्येतत्प्रशस्तिप्रान्तभागोल्लेखेन ग्रन्थस्याऽस्य निर्माणाऽवसरो विकमार्कसंवत् १३२४ रूपः प्रतीयते ।