SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ( ५ ) श्रीजैनशासनसरोज विकाशभानुः श्रीदेवसूरिरिति तस्य बभूव शिष्यः । दुर्वादिकौशिकचयप्रतिभादृगान्ध्यं यावन्मरीचिनिचयै रचयांचकार ॥ येषां दूरीकृतया कीर्त्या वलयापि कुमुदचन्द्रस्य । विदधे विजयस्तज्जयमहिमा को नाम तेषां स्यात् ? " ॥ ( शान्तिनाथचरित्रे श्रीमुनिदेवसूरयः ) “वादिश्रीदेवसूरेर्गणगगनविधोर्बिभ्रता शारदाया नाम प्रत्यक्षपूर्व सुजयपदभृतो मङ्गलाह्वस्य सूरेः । पादद्वन्द्वारविन्दे बुधमधुपहिते भृङ्गभृङ्गिं दधानो वृत्तिं सोमोऽभिरामामकृत कृतिमतां वृत्तरत्नाकरस्य" ॥ (वृत्तरत्नाकरटीकायां श्रीसोमचन्द्रपण्डिताः ) “नग्नो यत्प्रतिभाघर्मात् कीर्तियोगपटं त्यजन् । हियेवाऽत्याजि भारत्या देवसूरिर्मुदेऽस्तु वः ॥ १ ॥ सत्रागारमशेषकेवलभृतां भुक्तिं तथाऽस्थापयनारीणामपि मोक्षतीर्थमभवत् तद्युक्तियुक्तोत्तरैः 1 यः श्वेताम्बरशासनस्य विजिते नग्ने प्रतिष्ठागुरुस्तद्देवाद् गुरुतोऽप्यमेयमहिमा श्रीदेवसूरिप्रभुः” ॥ २ ॥ ( प्रेबन्धचिन्तामणौ श्रीमेरुतुङ्गाचार्याः ) “अतिष्ठिपन् निर्वृतिमङ्गनाजने विजित्य ये दिक्पटमागमोक्तिभिः । विवादविद्याविदुरं वदावदा जयन्ति तेऽमी प्रभुदेवसूरयः " ( पृ० २ ) “सिताम्बराणामपि यैश्च दर्शनं स्थिरं कृतं गूर्जर भूमिमण्डले । चलाचलं दिक्पटवादवात्यया मनोमुदे ते मम देवसूरयः ॥ (“) १ अयं ग्रन्थ विक्रमात् १३२९ वर्षे पण्डितैर्निर्मितः, यत्त एव ग्रन्थान्तभागे "" 66 C “श्रीविक्रमनृपकाले नन्द - कर- कृपीटयोनि- शशिसंख्ये । समजनि रजोत्सवदिने वृत्तिरियं मुग्धबोधकरी " ॥ ४ ॥ २ " एतद्ग्रन्थ निर्माणसमयः " त्रयोदशस्वब्दशतेषु चैकषष्टयाधिकेषु क्रमतो गतेषु । वैशाखमासस्य च पूर्णिमायां ग्रन्थः समाप्तिं गमितो मितोऽयम् ॥ इति पद्यमुपन्यस्यद्भिर्ग्रन्थकर्तृभिरेव प्रत्यपादि ।
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy