________________
"तत्पटाचलपूर्वपर्वतशिरःशृङ्गारतिग्मद्युतिः स्फूर्जत्कौमुदचन्द्रधामनिहतिप्रख्यातकीर्तिव्रजः । तापव्यापदपाकृतिप्रमुदितैरासेव्यमानो भृशं सच्चकैः सततं चिरं स जयति श्रीदेवसूरिप्रभुः" ॥ (पृष्ठ-३५३)
(शान्तिनाथमहाकाव्ये श्रीमुनिभद्रसूरयः) "तस्याऽभवन्नजितदेवमुनीन्द्रवादिश्रीदेवसूरिवृषभप्रमुखा विनेयाः ॥२४॥
(क्रियारत्नसमुच्चये श्रीगुणरत्नसूरयः) "अष्टहयेशमितेऽब्दे विक्रमकालाद् दिवं गतो भगवान् ।
श्रीमुनिचन्द्रमुनीन्द्रो ददातु भद्राणि सङ्घाय ॥ ७२ ॥ तस्मादभूदजितदेवगुरुगरीयान् प्राच्यस्तपःश्रुतनिधिर्जलधिर्गुणानाम् । श्रीदेवसूरिरपरश्व जगत्प्रसिद्धो वादीश्वरोऽस्तगुणचन्द्रमदोऽपि बाल्ये ॥७३॥ येनाऽदितश्चतुरशीतिसुवादिलीलालब्धोल्लसज्जयरमामदकेलिशाली । वादाहवे कुमुदचन्द्रदिगम्बरेन्द्रः श्रीसिद्धभूमिपतिसंसदि पत्तनेऽस्मिन्॥४॥ ___ वेदमुनीशमितेऽब्दे देवगुरुर्जगदनुत्तरोऽभ्युदितः"
__ (गुर्वावल्यां श्रीमुनिसुन्दरसूरयः) १ श्रीयशोविजयजैनग्रन्थमालायां मुद्रितम् । एतद्ग्रन्थनिर्माणकालप्रतिपादनपरं तत्रस्थमिदं पद्यम्
"अन्तरिक्ष-रजनीहृदीश्वर-ब्रह्मवक्त्र-शशिसंख्यवत्सरे ।
वैक्रमे शुचितपोजयातिथौ शान्तिनाथचरितं व्यरच्यत” ॥१७॥ २ श्रीयशोविजयजैनग्रन्थमालायां प्रसिद्धिमानीतोऽयं ग्रन्थः । इदंप्रन्थप्रणयननिर्णयनाय
"काले षड्-रस-पूर्ववत्सरमिते श्रीविक्रमार्काद् गते गुर्वादेशवशाद् विमृश्य च सदा स्वान्योपकारं परम् । ग्रन्थं श्रीगुणरत्नसूरिरतनोत् प्रज्ञाविहीनोऽप्यमुं
निर्हेतूपकृतिप्रधानजननैः शोध्यस्त्वयं धीधनैः ॥ ६३ ॥ इति तत्प्रशस्तिप्रान्तभागे स्थितोऽयं श्लोक एव पर्याप्तः ।
३ श्रीयशोविजयजैनग्रन्थमालायां प्राकाश्यं प्रापितोऽयं ग्रन्थः । एतद्विधानसमयमिममुल्लिखन्ति ग्रन्थकाराः--
" रस-रस-मनुमितवर्षे मुनिसुन्दरसूरिणा कृता पूर्वम् । मध्यस्थैरवधार्या गुर्वालीयं जयश्रीद्धा" ॥