SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ " श्रीमुनिचन्द्रसूरिशिष्याः श्रीअजितदेवसूरिवादिदेवसूरिप्रभृतयः । तत्र बादिश्रीदेवसूरिभिः श्रीमदणहिल्लपुरपत्तने जयसिंहदेवराजस्याऽनेकविद्वज्जनकलितायां सभायां चतुरशीतिवादलब्धजययशसं दिगम्बरचक्रवर्तिनं वादलिप्सु कुमुदचन्द्राचार्य वादे निर्जिन्य श्रीपत्तने दिगम्बरप्रवेशो निवारितोऽद्यापि प्रतीतः । तथा वि० चतुरधिकहादशशत(१२०४)वर्षे फलवर्द्धिग्रामे चैत्यबिम्बयोः प्रतिष्टा कृता, तत्तीर्थ तु सम्प्रत्यपि प्रसिद्धम् । तथा आरासणे च श्रीनेमिनाथप्रतिष्टा कृता। चतुरशीतिसहस्र (८४०००)प्रमाणः स्याद्वादरत्नाकरनामा प्रमाणग्रन्थः कृतः । येभ्यश्च यन्नाम्नैव ख्यातिमञ्चनुर्विशतिसूरिशाखं बभूव । एषां च वि० चतुस्त्रिंशदधिके एकादशशत(११३४)वर्षे जन्म, द्विपञ्चाशदधिके(११५२)दीक्षा। चतुःसप्तत्यधिके(११७४)सूरिपदम् । पड्विंशत्यधिकद्वादशशत(१२२६)वर्षे श्रावणवदिसप्तम्यां गुरौ स्वर्गः ॥ (तपागच्छपट्टावल्यां श्रीधर्मसागरोपाध्यायाः) प्रतिपादितश्चैतेषां वादिपुङ्गवानां प्रपञ्चेन प्रबन्धो मुद्रितकुमुदचन्द्रप्रकरण-प्रभावकचरित्र-प्रबन्धचिन्तामण्यादिग्रन्थेषु पूर्वकालिकैस्तैम्तैर्विद्वद्वरैः, इति विशेषार्थिभ्यस्तत्रैव विलोकनार्थ विज्ञप्यते । ___ एभिर्वादिकुलोत्तसैः प्रभातम्मरणकुलक-श्रीमुनिचन्द्रसूरिस्तुतिश्रावकधर्मकुलकादिव्यतिरिक्तोऽस्यैव ग्रन्थस्य विस्तरेणार्थप्रतिपादनपरश्चतुरशीतिसहस्रश्लोकप्रमितः म्याद्वादरत्नाकराख्यो यथार्थनामा प्रमाणग्रन्थोऽपि निरमायि'; यम्य परिचयाथै महत्त्वपूर्णत्वं सकलतर्कग्रन्थमौलिमुकुटत्वं च परिचाययितुं "इह हि लक्ष्यमाणाऽक्षोदीयोऽर्थाथूणाक्षरक्षीरनिरन्तरे, तत इतो दृश्यमान१ श्रीयशोविजयग्रन्थमालायां मुद्रितमिदं प्रकरणम् । २ यत् स्याद्वादरत्नाकरे प्रथमपरिच्छेदपर्यवसाने वादिवर्याः-- " इति सकलतार्किक-बयाकरण-सैद्धान्तिक सहृदय-कविचक्रचक्रवर्ति- चारित्रचूडामणि-सुविहितमुगृहीतनामधेयश्वेताम्बराधिपश्रीमन्मुनिचन्द्रसूरिचरणसरसीरुहोपजीविना श्रीदेवाचार्येण विरचिते स्याद्वादरत्नाकरे प्रमाणनयतत्त्वालोकालङ्कारे प्रमामस्वरूपनिणयो नाम प्रथमः परिच्छेदः ।
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy