SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ( ८ ) स्याद्वादमहामुद्रामुद्रितानिद्रप्रमेयसहस्रोत्तुङ्गरङ्गत्तरङ्गभङ्गिसङ्गसौभाग्यभाजने, अतुलफलभरभ्राजिष्णुभूयिष्टागमाभिरामातुच्छपरिच्छेदसंदोहशाद्वलासन्नकानननिकुञ्ज,निरुपममनीषामहायानपात्रव्यापारपरायणपुरुषप्राप्यमाणाऽप्राप्तपूर्वरत्नविशेषे, क्वचन वचनरचनानवद्यगद्यपरम्पराप्रवालजालजटिले,क्वचन सुकुमारकान्तालोकनीयास्तोकश्लोकमौक्तिकप्रकरकरम्बिते, क्वचिदनेकान्तवादोपकल्पिताऽनल्पविकल्पकल्लोलोल्लासितोद्दामदूषणाद्रिविद्राव्यमाणानेकतीर्थिकनकचक्रचक्रवाले, क्वचिदपगताशेषदोषाऽनुमानाभिधानोद्वर्तमानासमानपाठीनपुच्छच्छटाच्छोटनोच्छलदतुच्छशीकरश्लेषसंजायमानमार्तण्डमण्डलप्रचण्डच्छमत्कारे, क्वापि तीर्थिकग्रन्थग्रन्थिसार्थसमर्थकदर्थनोपस्थापितार्थानवस्थितप्रदीपायमानप्लवमानज्वलन्मणिफणीन्द्रभीषणे, सहृदय-सैद्धान्तिक-तार्किक-वैयाकरण-कविचक्रचक्रवतिसुविहितसुगृहीतनामधेयाऽस्मद्गुरुश्रीदेवसूरिभिर्विरचिते स्याद्वादरत्नाकरे-" " प्रभूतं चात्र वक्तव्यं तच्चोक्तमेव बृहद्वृत्तौ वितत्य श्रीपूज्यैः” " एतदत्र विततीक्रियमाणं प्रस्तुतेतरदिव प्रतिभाति । विस्तराय च भवेदिति चिन्त्यं तद् विलोक्य गुरुगुम्फितवृत्तिम् ।। " आक्षेपश्च समाधिश्च ज्ञेयौ रत्नाकरादिह"। " भङ्गः कथात्रयस्याऽत्र निग्रहस्थाननिर्णयः । श्रीमद्ररत्नाकरग्रन्थाद् धीधनैरवधार्यताम् ॥ यतःप्रमेयरत्रकोटीभिः पूर्णो रवाकरो महान् ” । (रत्नाकरावतारिका) " स्याद्वादरत्नाकरतर्कवेधा मुदे स केषां न हि देवसूरिः ?”। (गुर्वावली) " स्याद्वादरत्नाकर इत्यस्ति तर्को महत्तमः। वादिवृन्दारकश्रीमद्देवसूरिविनिर्मितः' ॥१॥ (रत्नाकरावतारिकापञ्जिका) " कान्ताननेकान्तमतावलम्बिनः स्याद्वादरत्नाकरवाङ्मयादिकान्" । (विजयप्रशस्तिमहाकाव्ये) " स्याद्वादरत्नाकरनामा, अणहिल्लपुरपत्तने श्रीसिद्धराजजयसिंहदेवप्रमुख
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy