SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ महासभ्यसमक्षं कुमुदचन्द्राख्यदिगम्बराचार्येण सह विवादं कुर्वाणैर्लब्धजयवादैादिश्रीदेवसूरिपादैः कृतश्चतुरशीतिसहस्रप्रमाणः प्रमाणग्रन्थः"। (विजयप्रशस्तरुपरितनश्लोकस्य टीका) इत्यादयः प्राक्तनैरनूचानेरुल्लेखिता उल्लेखा एवाऽलं भविष्यन्ति, इति कृतमत्र बहुभाषितेनाऽस्माकम् । एतेनैतेषां वादिसिंहानां सर्वशास्त्रविषयकं प्रौढपाण्डित्यं परमावधिमधिगतमित्यप्यास्माकीनं वक्तव्यं सामर्थ्यादेव नियूदं भवति । एतस्या रत्नाकरावतारिकाख्यायाष्टीकायास्तु विनिर्मातारस्तार्किकमतल्लिका रत्नप्रभसूरयस्तेषामेव वादश्रेणिशिरोमणीनां शिष्योत्तंसाः समभूवन् , इति टीकाकृतः स्वयं स्वविरचितेषु तत्तद्ग्रन्थेषु प्रत्यपीपदन्; तथाच रत्नाकरावतारिकायाः प्रान्ते-- " प्रज्ञातः पदवेदिभिः स्फुटदृशा संभावितस्तार्किकैः कुर्वाणः प्रमदाद् महाकविकथां सिद्धान्तमार्गाध्वगः। दुर्वाद्यङ्कुशदेवसूरिचरणाम्भोजद्वयीषट्पदः श्रीरत्नप्रभसूरिरल्पतरधीरेतां व्यधाद् वृत्तिकाम् " ॥ ५ ॥ उपदेशमालाटीकायामपि" पायं पायं प्रवचनसुधां प्रीयते या प्रकामं स्वैरं स्वैरं चरति कृतिनां कीर्तिवल्लीवनेषु । दोग्ध्री कामान् नवनवरसैः, सा भृशं प्रीणयन्ती मादृग्वत्सान् जयति जगति श्रीगवी देवसूरेः " ॥ " तत्पट्टप्रभवोऽभवन्नथ गुणग्रामाभिरामोदयाः श्रीभद्रेश्वरसूरयः शुचिधियस्तन्मानसप्रीतये । श्रीरत्नप्रभसूरिभिः शुभकृते श्रीदेवसूरिप्रभोः शिष्यैः सेयमकारि संमदकृते वृत्तिर्विशेषार्थिनाम् " ॥ रत्नाकरावतारिकापञ्जिकायां श्रीराजशेखरसूरयश्च " श्रीदेवसूरिशिष्येन्द्रैः श्रीरत्नप्रभसूरिभिः ।
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy