________________
( १० ) तत्र टीका लघुश्चक्रे रत्नाकरावतारिका " ॥ प्रबन्धचिन्तामण्यां श्रीमरुतुङ्गाचार्या अपि
“अथ देवसूरिप्रभो रत्नप्रभाभिधानः प्रथमशिप्यः क्षपामुखे गुप्तवेषतया कुमुदचन्द्रस्य गुरूदर गतः”।
एतेन य एव वादिवर्याणां समयः स एवैतेषां टीकाकृतामपि, इति निःसंशयं प्रतीयते । ___ अत्र ग्रन्थे मूलसूत्राणां स्फुटतरमर्थप्रकाशनम् , तत्र तत्र विप्रतिपन्नानामन्यदर्शनानां मतस्योपस्थापनम् , युक्तिततिभिर्जिनमताऽनुमतं तत्प्रतिविधानं च तादृश्या सहृदयहृदयहृदयङ्गमया लालित्यपूर्णया भाषापद्धत्या निर्वर्णितं, यादृशी विरलमेव तर्कग्रन्थेष्वन्येषूपलभ्यते ।
ग्रन्थस्याऽस्य दर्शनविषयकत्वेन स्वाभाविकं काठिन्यं, तत्राऽपि प्रौढलेखसहकृतगभीराशयत्वेनाऽतिकृच्छ्रगम्यत्वं च विज्ञाय तदर्थावबोधसहाये पण्डितश्रीज्ञानचन्द्रमलधारिश्रीराजशेखरसूरिभ्यां टिप्पणपञ्जिके निरमायिषाताम् , ये अद्यापि विद्यमानतां बिभृतः ।
एते च टीकाकाराः शाब्दिकचेतश्चमत्कारचञ्चून् शब्दप्रयोगान् प्रयुञ्जानाः समसूसुचन् निजां व्याकरणपारदर्शिताम् , सुमनोमनोहरैरनवद्यैः पद्यैरेव संपूर्णमपि महीयांसं चक्षुःप्राप्यकारितावादं समुपन्यस्यमाना आवीविदन्नात्मीयां साहित्यशास्त्रप्रवीणताम् , पुनः पुनः परावृत्तैस्त्रयोदशभिरेव वर्णैर्जगत्कर्तृत्वनिराकरणं निर्मिमाणाश्च पर्यचीचयन् स्वयमेव स्वकीयमद्भुतास्पदं प्रतिभाप्रकर्षम् , इति ग्रन्थस्याऽस्य समू
१ एवं च ‘वादिदेवसूरिणामेव शिष्याः श्रीरत्नप्रभसूरयः' इति प्रतिपादनपरेप्वनेकेषु निर्दोषेषु प्रमाणेषु सत्स्वपि, यदेतद्भाषानुवादपुस्तकप्रस्तावनायां केनापि श्रीरत्नप्रभसूरीणां गुरुत्वेन श्रीभद्रेश्वरसूरय उपन्यस्ताः, तत्र विना तत्प्रस्तावकस्याऽज्ञतां, किमन्यत्कारणमभिधातुं शक्यते ? ।