SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ( ११ ) चूलं सुविचारं विलोकनेन विनिश्चेष्यन्ते विपश्चितः, स्वयं श्रद्धास्यन्ते च टीकाकृद्भिर्ग्रन्थपर्यवसानप्रतिपादितमिदं ग्रन्थमहत्त्वप्रदर्शकं पद्यमपि" वृत्तिः पञ्च सहस्राणि येनेयं परिपठ्यते । "" भारती भारती चास्य प्रसर्पन्ति प्रजल्पतः ॥ श्रीमद्रत्नप्रभसूरिभिरन्येऽपि श्री नेमिनाथचरित - उपदेशमालाटीकामतपरीक्षापञ्चाशदादयो नानाविधा ग्रन्था अग्रन्थिषत, यैरपि तेषां विविधशास्त्रविचक्षणता, प्रतिभाप्राम्भराधिकारिता चं बाढं प्रतीतिपथमवतरति । किञ्च, स्वयं वादिपुङ्गवा अपि निजे स्याद्वादरत्नाकरे श्लोकमिमं समुपन्यस्यन्तश्चित्ताकर्षकैः शब्दैः श्रीरत्नप्रभसूरिभ्यः श्लाघन्ते" किं दुष्करं भवतु तत्र मम प्रबन्धे यत्रातिनिर्मलमतिः सतताभियुक्तः । भद्रेश्वरः प्रवरसूक्तिसुधाप्रवाहो रत्नप्रभश्च भजते सहकारिभावम् ?” ॥१॥ एतन्मुद्रणावसरे यान्यादर्शपुस्तकानि येषां महात्मनां सान्निध्यादुपलब्धानि तानि तेषां धन्यवादार्पणपूर्वकमुपकाराङ्गीकारसहकाराणि नामानि चात्रोल्लिख्यन्ते । " " १ पन्न्यासश्रीवीरविजयानां पुस्तकमेकं शुद्धं, प्राचीनं, प्रान्ते एतदुल्लेखसमन्वितं च " संवत् १४९५ वर्षे ज्येष्ठशुक्ल ९ भृगुवासरे महं नारद लिखितम् २ मुनिराज श्रीजयविजयानां पुस्तकमेकं शुद्धं, प्राचीनं च । ३ भावनगर श्रीसंघभाण्डागारस्य पुस्तकमेकं शुद्धं, नातिप्राचीनम्, अन्तेऽक्षरैरेतैः सहकृतं च " संवत् १७०० वर्षे प्रथमचैत्रमासे कृष्णपक्षे ३ शनौ दिने ४ वाराणसेययतिवर्य श्री नेमिचन्द्राणां पुस्तकमेकं नवीनं, शुद्धं च । एवं च पुस्तकचतुष्टय साहाय्येन महता परिश्रमेण शोधितमुद्रिते "" "" 4
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy