SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ( ३ ) बादी द्राः श्रीदेवसूरिपादाः; तथा च प्रभावकचरित्रे “श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासने । सूत्रधारः प्रभुः श्रीमान् हेमचन्द्रप्रभुर्जगौ ” ॥ २५० ॥ तथाहि यदि नाम कुमुदचन्द्रं नाजेष्यद् देवसूरिरहिमरुचिः । कटिपरिधानमधास्यत कतमः श्वेताम्बरो जगति ? ॥२५१ ॥ श्रीचन्द्रसूरयस्तत्र सिद्धान्तस्येव मूर्तयः । शासनोद्धारकूर्मायाऽशासन् श्रीदेवसूरये ॥ २५२ ॥ श्रीमद्देवगुरौ सिंहासनस्थे सति भास्वति । प्रतिष्ठायां न लग्नानि वृत्तानि महतामपि " ॥ ॥ २५३ ॥ अपरैरपि तत्समानकालिकैः, पश्चाद्भाविभिश्च भूरिभिः सूरिभिर्वादिवर्याणां जयश्रीसमागमस्य चातुर्वैद्यवैशारद्यस्य, माहात्म्योत्कीर्त - नस्य, सत्तासमयाद्युपवर्णनस्य च तत्तद्द्मन्थेषु विहितः संवादः सुस्पष्टं लोचनगोचरीभवति, तथाहि 66 39 यैरत्र स्वप्रभया दिगम्बरस्याऽर्पिता पराभूतिः । प्रत्यक्षं विबुधानां जयन्ति ते देवसूरयो नव्याः “आशावासः समयसमिधां संचयैश्चीयमाने स्त्रीनिर्वाणोचितशुचिवचश्चातुरीचित्रभानौ । प्रति तथा सिद्धराजे, जयश्री स्योद्वाहं व्यधित स सदा नन्दताद् देवसूरिः " ॥ (पृष्ठ १८६) ( रत्नाकरावतारिकायां श्रीरत्नप्रभसूरयः ) “शिष्यः श्रीमुनिचन्द्रसूरिमुनिभिर्गीतार्थचूडामणिः तट्टे स्त्रे विनिवेशितस्तदनु स श्रीदेवसूरिप्रभुः । आस्थाने जयसिंहदेवनृपतेर्येनाऽस्तदिग्वाससा स्त्रीनिर्वाणसमर्थनेन विजयस्तम्भः समुत्तम्भितः ॥ (पृष्ठ १) 99 ॥ ( उपदेशमालाटीकाप्रशस्तौ रत्नप्रभसूरयः) १ एतन्निर्माणकालस्तु प्रन्थकर्तृभिस्तत्रैव " विक्रमाद् वसुलोकार्कवर्षे माघे समर्थिता" इत्यनेन प्रतिपादितः ।
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy