________________
रत्नाकरावतारिकायुक्तः। १७५
वादिप्रतिवादिनौ ॥ १६ ॥ यौ तौ प्रारम्भकप्रत्यारम्भको पूर्वमुक्तौ, तावेव परस्परं वादिप्रतिवादिनौ व्यपदिश्येते; यथा द्वौ नियुध्यमानौ मल्लप्रतिमल्लाविति ॥ १६ ॥ प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः
कर्म ॥ १७ ॥ वादिना प्रतिवादिना च स्वपक्षस्थापनं परपक्षप्रतिक्षेपश्च द्वितयमपि कर्तव्यम् , एकतरस्यापि विरहे तत्त्वनिर्णयानुत्पत्तेः । अत एव स्वपक्षेत्यादिदिवचनेनोपक्रम्यापि कर्मेत्येकवचनम् , यथेन्धनध्मानाधिश्रयणादीनामन्यतमस्याप्यपाये विक्लित्तेरनिष्पत्तेः सर्वेषामपि पाकइत्येकतया व्यपदेश इति । स्वपक्षस्थापनपरपक्षप्रतिक्षेपयोः समासेन निर्देशः क्वचिदेकप्रयत्ननिष्पन्नताप्रत्यायनार्थम् । यदा हि निवृत्तायां प्रथमकक्षायां प्राप्तावसरायां च द्वितीयकक्षायां प्रतिवादी न किञ्चिद् वदति, तदानीं प्रथमकक्षायां स्वदर्शनानुसारेण सत्प्रमाणोपक्रमत्वे स्वपक्षस्थापनमेव परपक्षप्रतिक्षेपः; यदा वा विरुद्धत्वादिकमुद्भावयेत् , तदा परपक्षप्रतिक्षप एव स्वपक्षसिद्धिः; इति समासेऽपि तुल्यकक्षताप्रदर्शनार्थमितरेतरयोगद्वन्द्वः । यथा स्वपक्षः स्थाप्यते तथा परपक्षः प्रतिक्षेप्यः, यथा चायं प्रतिक्षिप्यते तथा स्वपक्षः स्थाप्यः, न तु सर्वत्र पारिशेष्यात् परितोषिणा भवितव्यम् । "मानेन पक्षप्रतिपक्षयोः क्रमात् प्रसाधनक्षेपणकेलिकर्मठौ । वादेऽत्र मल्लप्रतिमल्लनीतितो वदन्ति वादिप्रतिवादिनौ बुधाः॥१॥१७॥ वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थ्यैरुभयाभि
मताः सभ्याः ॥ १८ ॥