________________
१७४
प्रमाणनयतत्वालोकालङ्कारः
तृतीयेऽङ्गनियममाहु:तृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥ १३ ॥ परत्र तत्त्वनिर्णिनीषौ क्षायोपशमिकज्ञानशालिनि वादिनि, निवेदितरूपाणां प्रथमद्वितीयतृतीयतुरीयाणां प्रतिवादिनाम् उक्तयुक्त्यैव प्रथमस्य चतुरङ्गः, द्वितीयतृतीययोः कदाचिद् व्यङ्गः, कदाचित् त्र्यङ्गः, तुरीयस्य तु द्वङ्ग एव वादो भवति । निःसीमा हि मोहहतकस्य महिमा, इति कश्चिदात्मानं निर्णीततत्त्वमिव मन्यमानः समग्र पदार्थ परमार्थ - दर्शन वन्यपि तन्निर्णयोपजननार्थ प्रवर्तत इति न कदाचिदसम्भावना, भगवांस्तु केवली प्रबलकृपापीयूषपूरपूरितान्तःकरणतया तमप्यवबोधयतीति को नाम नानुमन्यते ? ।। १३ ।।
परोपकारैकपरायणस्य भगवतः केवलिनः संभवन्त्यपि परत्र तत्त्वनिर्णिनीषा न केवल कलावलोकितसकलवस्तुतया कृतकृत्ये केवलिनि विलसितुमुत्सहत इति प्रथमादीनां त्रयाणामेवाङ्गनियममाहुः
तुरीये प्रथमादीनामेवम् ॥ १४ ॥
परत्र तत्त्वनिणिनीषौ केवलिनि वादिनि, प्रथमद्वितीयतृतीया - नामेवमिति पूर्ववत् प्रथमस्य चतुरङ्गः, द्वितीयतृतीययोस्तु व्यङ्गएव वा भवतीत्यर्थः ।
"प्रारम्भकापेक्षतया यदेवमङ्गव्यवस्था लभते प्रतिष्ठाम् ।
संचिन्त्य तस्मादमुमादरेण प्रत्यारभेत प्रतिभाप्रगल्भः " || १ || १४ || चतुरङ्गो वाद इत्युक्तम्, कानि पुनश्चत्वार्यङ्गानि ? इत्याहु:वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि ॥ १५ ॥
स्पष्टम् ।। १५ ।।
अथैतेषां लक्षणं कर्म च कीर्तयन्ति - प्रारम्भकप्रत्यारम्भकावेव मछुप्रतिमल्दन्यायेन