________________
रत्नाकरावतारिकायुक्तः। धर्थ वाऽपराङ्गद्वयमप्यवश्यमपेक्षणीयम् । अथ तृतीयस्तुरीयो वाऽसौ स्यात् , तथाऽप्यनेन जिगोषोर्वादिनः शाठ्यकलहाद्यपोहाय, जिगीषुणा च प्रारम्भकेण लाभपूजाख्यात्यादिहेतवे तदपेक्ष्यत एवेति सिद्धैव चतुरङ्गता । स्वात्मनि तत्त्वनिर्णिनीषुस्तु जिगीषु प्रति वादितां प्रतिवादितां च न प्रतिपद्यते, स्वयं तत्त्वनिर्णयानभिमाने परावबोधार्थ प्रवृत्तेरभावात् , तस्मात् तत्त्वनिर्णयासम्भवाच्च; इति नायमिहोत्तरत्र च निर्दिश्यते ॥ १०॥ ___ अनयैव नीत्या जिगीषुमिव स्वात्मनि तत्त्व िणनीषुमपि प्रत्यस्य वादिता प्रतिवादिता वा न सङ्गच्छत इति पारिशेष्यात् तृतीयतुरीययोरेवास्मिन् वादः सम्भवतीति तृतीयस्य तावदङ्गनियममभिदधतेद्वितीये तृतीयस्य कदाचिद् द्यङ्गः, कदाचित् व्यङ्गः॥११॥
- स्वात्मनि तत्त्वनिर्णिनीषौ वादिनि समुपस्थिते सति तृतीयस्य परत्र तत्त्वनिणिनीषोः क्षायोपशमिकज्ञानशालिनः प्रतिवादिनः, कदाचिद् व्यङ्गो वादो भवति, यदा जयपराजयादिनिरपेक्षतयाऽपेक्षितस्तत्त्वावबोधो वादिनि प्रतिवादिना कत्तु पार्यते, तदानीमितरस्य सभ्यसभापतिरूपस्याऽङ्गद्वयस्यानुपयोगात् । न ह्यनयोः स्वपरोपकारायैव प्रवृत्तयोः शाठ्यकलहादिलाभादिकामभावाः सम्भवन्ति । यदा पुनरुत्ताम्यताऽपि क्षायोपशमिकज्ञानशालिना प्रतिवादिना न कथंचित्तत्त्वनिर्णयः कर्तुं शक्यते, तदा तन्निर्णयार्थमुभाभ्यामपि सभ्यानामपेक्ष्यमाणत्वात् कलहलाभाद्यभिप्रायाभावेन सभापतेरनपेक्षणीयत्वात् व्यङ्गः ॥ ११ ॥ द्वितीय एव वादिनि चतुर्थस्याङ्गनियममाहुः
तत्रैव व्यङ्गस्तुरीयस्य ॥ १२ ॥ तत्रैव द्वितीये स्वात्मनि तत्त्वनिर्णिनीषौ वादिनि, तुरीयस्य परत्र तत्त्वनिर्णिनीषोः केवलिनः प्रतिवादिनः, ढ्यङ्ग एव वादः, तत्त्वनिर्णायकत्वाभावासंभवेन सभ्यानामभिहितदिशा सभापतेश्चाऽनपेक्षणात्॥१२॥