________________
१७२ प्रमाणनयतत्त्वालोकालङ्कारःप्रतिवादी तु जिगीषुः, स्वात्मनि तत्त्वनिर्णिनीषुः, परत्र तत्त्वनिणिनीषुः क्षायोपशमिकज्ञानशाली, केवली च । तथा वादी परत्र तत्त्वनिर्णिनीषुः केवली च प्रतिवादी तु जिगीषुः, स्वात्मनि तत्त्वनिर्णिनीषुः, परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली, केवली च न । एवमेते चत्वारश्चतुष्काः षोडश । नअपलक्षितेषु चतुर्पु पातितेषु द्वादश भवन्ति
“अङ्गनैयत्यनिश्चित्यै वादे वादफलार्थिभिः ।
द्वादशैवाऽवसातव्या एते भेदा मनस्विभिः” ॥ १॥९॥ ... अङ्गनियममेव निवेदयन्ति
तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एव, अन्यतमस्याऽप्यङ्गस्यापाये जयपराजयव्यव
स्थादिदौःस्थ्यापत्तेः ॥ १० ॥ उक्तेभ्यश्चतुर्यः प्रारम्भकेभ्यः प्रथमे जिगीषौ प्रारम्भके सति प्रथमस्य जिगीषोरेव, तृतीयस्य परत्र तत्त्वनिर्णिनीषुभेदस्य क्षायोपशमिकज्ञानशालिनः तद्भेदस्यैव, तुरीयस्य केवलिनश्च प्रत्यारम्भकस्य प्रतिवादिनश्चतुरङ्ग एव प्रकरणाद् वादो भवति । वादिप्रतिवादिरूपयोरङ्गयोरभावे वादस्यानुत्थानोपहततैव, इति तयोरयत्नसिद्धत्वेऽप्यपराङ्गद्वयस्यावश्यम्भावप्रदर्शनार्थ चतुरङ्गत्वं विधीयते । प्रसिद्धं च सिद्धांशमिश्रितस्याऽप्यसिद्धस्यांशस्य विधानम् । यथा शब्दे हि समुच्चारित यावानर्थः प्रतीयते तावति शब्दस्याभिधैव व्यापार इति “निःशेषच्युतचन्दनम्" इत्यादौ वाच्य एवैकोऽर्थ इति प्रत्यवस्थितं प्रति द्वावेतावों वाच्यः प्रतीयमानश्चेत्येवंरूपतया वाच्यस्य सिद्धत्वेऽपि प्रतीयमानपार्थक्यसिद्धयर्थ द्वित्वविधानम् । तत्र वादिप्रतिवादिनोरभावे वाद एव न संभवति, दूरे जयपराजयव्यवस्था; इति स्वतःसिद्धावेव तौ । तत्र च वादिवत् प्रतिवाद्यपि चेजिर्गःषुः, तदानीमुभाभ्यामपि परस्परस्य शाध्यकलहादेर्जयपराजयव्यवस्थाविलोपकारिणो निधारणार्थ लाभा