________________
रत्नाकरावतारिकायुक्तः।
१७१
सद्वाम् । तदेवं चत्वारः प्रारम्भका:-जिगीषुः, स्वात्मनि तत्त्वनिर्णिनीषुः, परत्र तत्त्वनिर्णिनीषू च क्षायोपशमिकज्ञानशालिकेवलिनाविति । तत्त्वनिणिनीषोहि ये भेदप्रभेदाः प्रदर्शिताः, नते जिगीषोः सर्वेऽपि संभवन्ति । तथाहि-न कश्चिद् विपश्चिदात्मानं जेतुमिच्छति । न च केवली परं पराजेतुमिच्छति, वीतरागत्वात् । गौडद्रविडादिभेदस्तु नाङ्गनियमभेदोपयोगी, प्रसञ्जयति चानन्त्यम् ; इति पारिशेष्यात् क्षायोपशमिकज्ञानशाली परत्र जिगीषुर्भवतीत्येकरूप एवासौ न भेदप्रदर्शनमर्हति । यौ च परत्र तत्त्वनिणिनीपोर्भेदावुक्तौ, न तौ द्वावपि स्वात्मनि तत्त्वनिणिनीषोः संभवतः, निर्णीतसमस्ततत्त्वज्ञानशालिनः केवलिनः स्वास्मनि तत्त्वनिर्णयेच्छ नुपपत्तेः, इति पारिशेष्यात् क्षायोपशमिकज्ञानवानेव स्वात्मनि तत्त्वनिर्णिनीपुर्भवतीत्यसावप्येकरूप एवेति ॥ ८ ॥ .. वादिप्रतिवादिनोहस्तिप्रतिहस्तिन्यायेन प्रसिद्धेर्यावद् वादिनः, तावद् वैव प्रतिवादिभिरपि भवितव्यम् ? इत्याहु:
एतेन प्रत्यारम्भकोऽपि व्याख्यातः॥ ९॥ आरम्भकं प्रति प्रतीपं चाऽऽरभमाणः प्रत्यारम्भकः, सोऽयमेतेन प्रारम्भकभेदप्रभेदप्ररूपणेन व्याख्यातः । प्रदर्शितभेदप्रभेदः सहृदयैः स्वयमवगन्तव्यः । एवं च प्रत्यारम्भकस्यापि जिगीषुप्रभृतयश्चत्वारः प्रकारा भवन्ति । तत्र यद्यप्येकैकशः प्रारम्भकस्य प्रत्यारम्भकेण सार्ध चादे षोडश भेदाः प्रादुर्भवन्ति, तथापि जिगीषोः स्वात्मनि तत्त्वनिर्णिनीषणा, स्वात्मनि तत्त्वनिर्णिनीषोजिगीषुणा, स्वात्मनि तत्त्वनिर्णिनीषाः स्वात्मनि तत्वनिर्णिनीषुणा च, केलिनश्च केवलिना सह वादो न संभवत्येव; इति चतुरो भेदान् पातयित्वा द्वादशैव तेऽत्र गण्यन्ते । तद्यथा-वादी जिगीपुः, प्रतिवादी तु जिर्ग:पुः स्वात्मनि तत्त्वनिर्णिनीपुर्न, परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली, केवली च । तथा वादी स्वात्मनि तत्त्वनिणिनीपुः, प्रतिवादी तु जिन:पुर्न स्वात्मनि तत्त्वनिर्णिनीपुर्न, परत्र तत्त्वनिणिनीषुः क्षायोपशमिकज्ञानशाली, केवली च । तथा वादी परत्र तत्त्वनिर्णिनी पुः क्षायोपशमिकज्ञानशाली