________________
१७०
प्रमाणनयतत्वालोकालङ्कारः
वृत्तिः स्वात्मनि तवं निर्णेतुमिच्छति, अपरस्तु परानुप्रहैकर सिक तया परत्र तथा; इति द्वेधाऽसौ तत्त्वनिर्णिनीषुः । सर्वोऽपि च धात्वर्थः करोत्यर्थेन व्याप्त इति स्वात्मनि परत्र च तत्त्वनिर्णयं चिकीर्षुरित्यर्थः । अथ परं प्रति तत्त्वनिणिनीषोरप्यस्य तन्निर्णयोपजनने जयघोषणामुद्घोषयन्त्येव सभ्या इति चेत्, ततः किम् ? । जिंगीषुता स्यादिति चेत्, कथं यो यदनिच्छुः स तदिच्छुः परोक्तिमात्राद् भवेत् ? । तत् किं नासौ जयमश्नुते ?, बाढमश्नुते । न च तमिच्छति च, अश्नुते चेति किमपि कैतवं तवेति चेत्, स्यादेवम्, यद्यनिष्टमपि न प्राप्येत । अवलोक्यन्ते चानिष्टान्यप्यनुकूलप्रतिकूलदैवोपकल्पितानि जनैरुपभुज्यमानानि शतशः फलानि । तदिदमिह रहस्यम्-परोपकारैकपरायणस्य कस्यचिद् वादिवृन्दारकस्य परत्र तत्त्वनिर्णिनीषोरानुषङ्गिकं फलं जय:, मुख्यं तु परतत्त्वावबोधनम् । जिगीषस्तु विपर्यय इति ॥ ५ ॥
स्वात्मनि तत्त्वनिर्णिनीषुमुदाहरन्ति -
आद्यः शिष्यादिः ॥ ६॥
इति स्वात्मनि तत्त्वनिर्णिनीषुरित्यर्थः । आदिग्रहणादिहोत्त
रत्र च सब्रह्मचारिसुहृदादि दीयते || ६ || परत्र तत्त्वनिर्णिनीषुमुदाहरन्ति -
द्वितीयो गुर्वादिः ॥ ७ ॥
द्वितीय इति परत्र तत्त्वनिर्णिनीषुः ॥ ७ ॥ द्वितीयस्य भेदावभिदधति
अयं द्विविधः क्षायोपशमिकज्ञानशाली
केवली च ॥ ८ ॥
अयमिति परत्र तत्त्वनिर्णिनीषुर्गुर्वादि:, ज्ञानावरणीयस्य कर्मणः क्षयोपशमेन निर्वृत्तं ज्ञानं मतिश्रुतावधिमनः पर्यायरूपं व्यस्तं समस्तं वा यस्यास्ति स तावदेकः; द्वितीयस्तु तस्यैव क्षयेण यज्जनितं केवलज्ञानं