________________
रत्नाकरावतारिकायुक्तः।
दृष्टमदृष्टम् , दवीयसी परलोकवार्तेति साक्षादाक्षेपो वा, न विद्यते निरवद्यविद्यावदातस्तव सदसि कश्चिदपि विपश्चिदित्यादिना भूपतेः समुत्तेजनं च; इत्यादिर्वादारम्भः । तत्त्वनिर्णिनीषोस्तु सब्रह्मचारिन् ! शब्दः किं कथञ्चिद् नित्यः स्याद् नित्य एव वेति संशयोपक्रमो वा, कथञ्चिद् नित्य एव शब्द इति निर्णयोपक्रमो वा इत्यादिरूपः। वचनव्यक्ती सूत्रेष्वतन्त्रे, क्वचिदेकस्मिन्नपि प्रौढे प्रतिवादिनि बहवोऽपि संभूय विवदेरन् जिगीषवः, पर्यनुयुजीरंश्च तत्त्वनिर्णिनीषवः, स च प्रौढतयैव तांस्तावतोऽप्यभ्युपैति, प्रत्याख्याति च, तत्त्वं चाचष्टे । कचिदेकमपि तत्त्वनिर्णिनीषु बहवोऽपि तथाविधाः प्रतिबोधयेयुः। इत्यनेकवादिकृतः, स्वीकृतश्च वादारम्भः संगृह्यते ॥२॥ तत्र जिगीषोः स्वरूपमाहुःस्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां
परं पराजेतुमिच्छर्जिगीषुः ॥ ३ ॥ स्वीकृतो धर्मः शब्दादेः कथञ्चिद् नित्यत्वादियः, तस्य व्यवस्थापनार्थम् , यत्सामर्थ्यात् तस्यैव साधनं परपक्षस्य च दूषणम् , ताभ्यां कृत्वा परं पराजेतुमिच्छजिगीषुरित्यर्थः । एतेन यौगिकोऽप्ययं जिगीषुशब्दो वादाधिकारिनिरूपणप्रकरणे योगरूढ इति प्रदर्शितम् ॥ ३॥ ___ अथ तत्त्वनिर्णिनीषोः स्वरूपं निरूपयन्तितथैव तत्त्वं प्रतितिष्ठापयिषुस्तत्त्वनिर्णिनीषुः ॥४॥
तथैव स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्याम् , शब्दादेः कथञ्चिद् नित्यत्वादिरूपं तत्त्वम् , प्रतिष्ठापयितुमिच्छुस्तत्त्वनिर्णिनीषुरित्यर्थः ॥ ४॥ अस्यैवाङ्गेयत्तावैचित्र्यहेतवे भेदावुपदर्शयन्ति
अयं च द्वेधा स्वात्मनि परत्र च ॥ ५॥ अयमिति तत्त्वनिर्णिनीषुः, कश्चिद् खलु सन्देहाद्युपहतचेतो.
२२