________________
१६८ प्रमाणनयतत्त्वालोकालङ्कारःक नाम वादकथाप्रारम्भात् प्रागनवसायस्यावकाशः ?। ततोऽयं सूत्रार्थः-यावेकाधिकरणावेककालौ च धौं विरुध्येते, तयोर्मध्यादेकस्य सर्वथा नित्यत्वस्य कथंचिन्नित्यत्वस्य वा, व्यवच्छेदेन निरासेन, स्वीकृततदन्यधर्मस्य कथंचिन्नित्यत्वस्य सर्वथा नित्यत्वस्य वा , व्यवस्थापनार्थ वादिनः प्रतिवादिनश्च साधनदूषणवचनं वादइत्यभिधीयते । सामर्थ्याच्च स्वपक्षविषयं साधनम् , परपक्षविषयं तु दूषणम् , साधनदूषणवचने च प्रमाणरूपे एव संभवतः, तदितरयोस्तयोस्तदाऽऽभासत्वात् ;- न च ताभ्यां वस्तु साधयितुं दूषयितुं वा शक्यमिति । ननु यस्मिन्नेव (मण्येकतरधर्मनिरासेन तदितरधर्मव्यवस्थापनार्थ वादिनः साधनवचनम् , कथं तस्मिन्नेव प्रतिवादिनस्तद्विपरीतं दूषणवचनमुचितं स्यात् ?, व्याघातात् ; इति चेत् । तदसत् , स्वाभिप्रायानुसारेण वादिप्रतिवादिभ्यां तथासाधनदूषणवचने विरोधाभावात् । पूर्व हि तावद् वादी स्वाभिप्रायेण साधनमभिधत्ते, पश्चात् प्रतिवाद्यपि स्वाभिप्रायेण दूषणमुद्भावयति। न खल्वत्र साधनं दूषणं चैकत्रैव धर्मिणि तात्त्विकमस्तीति विवक्षितम् ; किन्तु स्वस्वाभिप्रायानुसरणेन वादिप्रतिवादिनौ ते तथा प्रयुजाते, इति तथैवोक्ते ॥ १॥
अङ्गनियमभेदप्रदर्शनार्थ वादे प्रारम्भकभेदी वदन्तिप्रारम्भकश्चात्र जिगीषुः, तत्त्वनिर्णिनीषुश्च ॥ २ ॥
तत्र जिगीषुः प्रसह्य प्रथमं च वादमारभते, प्रथममेव च तत्त्वनिर्णिनीषुः, इति द्वावप्येतौ प्रारम्भको भवतः । तत्र जिगीषोः
"सारङ्गमातङ्गतुरङ्गपूगाः ! पलाय्यतामाशु वनादमुष्मात् ।
साटोपकोपस्फुटकेशरश्रीमंगाधिराजोऽयमुपेयिवान् यत् " ॥१॥ इत्यादिविचित्रपत्रोत्तम्भनम् । अयि ! कपटनाटकपटो ! सितपट ! किमेतान् मन्दमेधसस्तपस्विनः शिष्यानलीकतुण्डताण्डवाडम्बरप्रचण्डपाण्डित्याविष्कारेण विप्रतारयसि ?; क जीवः ?, न प्रमाण