________________
अर्हम्
अथाष्टमः परिच्छेदः ।
冬
प्रमाणनयतत्त्वं व्यवस्थाप्य संप्रति तत्प्रयोगभूमिभूतं वस्तुनि - र्णयाभिप्रायोपक्रमं वादं वदन्ति
विरुद्धयोर्धर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थ साधनदूषणवचनं वादः ॥ १ ॥
विरुद्धयोरेकत्र प्रमाणेनाऽनुपपद्यमानोपलम्भयोर्धर्मयोर्मध्यादिति निर्धारणे षष्ठी सप्तमी वा । विरुद्धावेव हि धर्मावेकान्तनित्यत्वकथञ्चिन्नित्यत्वादी वादं प्रयोजयतः, न पुनरितरौ, तद्यथा-पर्यायवद् द्रव्यं गुणवच्च; विरोधश्चैकाधिकरणत्वैककालत्वयोरेव सतोः संभवति । अनित्या बुद्धिर्नित्य आत्मेति भिन्नाधिकरणयोः; पूर्व निष्क्रियम्, इदानीं क्रियावद् द्रव्यमिति भिन्नकालयोश्च तयोः प्रमाणेन प्रतीतौ विरोधासंभवात् । अयमेव हि विरोधो यत्प्रमाणेनाऽनुपलम्भनं नाम, अन्यथाऽपि तस्याभ्युपगमे सर्वत्र तदनुषङ्गप्रसङ्गात्, इति विरुद्धत्वान्यथानुपपत्तेरेकाधिकरणत्वैककालत्वयोरवगतौ । यद् न्यायभाष्ये - " वस्तुधर्मावेकाधिकरणौ विरुद्धावेककालावनवसितौ” इति तयोरुपादानम्, तत् पुनरुक्तम्, अपुष्टार्थं वा । यदप्यत्रैवानवसिताविति, तदप्यव्यापकम्, यतो वीतरागविषयवादकथायामनवसितत्व सद्भावेऽपि जिगीषुगोचरवादकथायां तदसद्भावात् । वीतरागवादो ह्यन्यतरसंदेहादपि प्रवर्तते । जिगीषुगोचर: पुनर्वादो न नाम निर्णयमन्तरेण प्रवर्त्तितुमुत्सहते । तथाहि - वादी शब्दादौ नित्यत्वं स्वयं प्रमाणेन प्रतीत्यैव प्रवर्तमानोऽसमानप्रतिपक्षप्रतिक्षेपमनोरथोऽहमहमिक्याऽनुमानमुपन्यस्यति ; प्रतिवाद्यपि तत्रैव धर्मिणि प्रतिपन्नानित्यत्वधर्मस्तथैव दूषणमुदीरयतीति