________________
१६६ प्रमाणनयतत्त्वालोकालङ्कारःर्थकरत्वलक्षणा, सास्त्रीषु नास्तीत्यमहद्धिकत्वमासां विवक्ष्यते । तदानीमप्यसिद्धता, स्त्रीणामपि परमपुण्यपात्रभूतानां कासाञ्चित् तीर्थकृत्त्वाविरोधात्, तद्विरोधसाधकप्रमाणस्य कस्याऽप्यभावात्, एतस्याऽद्यापि विवादास्पदत्वात् , अनुमानान्तरस्य चाभावात्। मायादिप्रकर्षवत्त्वेनेत्यप्यशस्यम् , तस्य स्त्रीपुंसयोस्तुल्यत्वेन दर्शनाद्, आगमे च श्रवणात् ; श्रूयते हि चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्त्वम् । तन्न पुरुषेभ्यो हीनत्वं स्त्रीनिर्वाणनिषेधे साधीयान् हेतुः। यत् पुनः-निर्वाणकारणं ज्ञानादिपरमप्रकर्षः स्त्रीषु नास्ति, परमप्रकर्षत्वात् , सप्तमपृथ्वीगमनकारणाऽपुण्यपरमप्रकर्षवत् ; इति तेनैवोक्तम् । तत्र मोहनीयस्थितिपरमप्रकर्षेण स्त्रीवेदादिपरमप्रकर्षेण च व्यभिचारः । नास्ति स्त्रीणां मोक्षः, परिग्रहवत्त्वात् , गृहस्थवद्, इत्यपि न पेशलम् ; धर्मोपकरणचीवरस्यापरिग्रहत्वेन प्रसाधितत्वात् ; इति स्त्रीनिर्वाणे संक्षेपेण बाधकोद्धारः। साधकोपन्यासस्तु-मनुष्यस्त्री काचिद् निर्वाति, अविकलतत्कारणत्वात्, पुरुषवत् । निर्वाणस्य हि कारणमविकलं सम्यग्दर्शनादिरत्नत्रयम् , तच्च तासु विद्यते एवेत्यादित एवोक्तम् , इति नासिद्धमेतत् । विपक्षाद् नपुंसकादेरत्यन्तव्यावृत्तत्वाद् न विरुद्धमनैकान्तिकं वा । तथा मनुष्यस्त्रीजातिः कयाचिद् व्यक्त्या मुक्त्यविकलकारणवत्या तद्वती, प्रव्रज्याधिकारित्वात्, पुरुषवत्। न चैतदसिद्धं साधनं “गुम्विणी बालवच्छा य पव्वावेउं न कप्पइ” इति सिद्धान्तेन तासां तदधिकारित्वप्रतिपादनात्, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानान्तरीयकत्वात् । दृश्यन्ते च सांप्रतमप्येताः कृतशिरोलुञ्चना उपात्तपिच्छकाकमण्डलुप्रमुखयतिलिङ्गाश्च, इति कुतो नैतासां प्रव्रज्याधिकारित्वसिद्धिः?, यतो न मुक्तिः स्यात्।इति सिद्धा यथोक्तरूपस्यात्मनो यथोक्तलक्षणा सिद्धिः।। इति प्रमाणनयतत्त्वालोकालङ्कारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायां नयात्मस्वरूपनिर्णयो
नाम सप्तमः परिच्छेदः ॥ .