________________
रत्नाकरावतारिकायुक्तः। १६५ वादिलब्धीनां कासाञ्चिदेव तासु प्रतिषेधात् , आमोषध्यादीनां तु भूयसीनां भावात् । द्वितीयपक्षे तु व्यभिचारः, पुरुषाणां सर्ववादादिलध्यभावेऽपि विशिष्टसामर्थ्य स्वीकारात् , अकेशवानामेव, अतीर्थकरचक्रवादीनामपि च मोक्षसंभवात् । अल्पश्रुतत्वमपि मुक्त्यवाप्त्याऽनुमितविशिष्टसामथ्र्यैषितुषादिभिरेवाऽनैकान्तिकभित्यनुद्वोष्यमेव । अनुपस्थाप्यतापाराञ्चितकशून्यत्वेनेत्यप्ययुक्तम् , यतो न तनिषेधाद् विशिष्टसामर्थ्याभावः प्रतीयते । योग्यतापेक्षो हि चित्रः शास्त्रे विशुद्ध्युपदेशः । उक्तं च
“ संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे ।
रोगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी" ॥१॥ पुरुषानभिवन्द्यत्वमपि योषितां नापकर्षाय, यतस्तदपि सामान्येन, गुणाधिकपुरुषापेक्षं वा । आद्येऽसिद्धतादोषः, तीर्थकरजनन्यादयो हि पुरन्दरादिभिरपि प्रणताः, किमङ्ग ! शेषपुरुपैः ? । द्वितीये तु शिष्या अप्याचार्यैर्नाभिवन्द्यन्त एवेति तेऽपि ततोऽपकृष्यमाणत्वेन निवृतिभाजो न भवेयुः; न चैवम् , चण्डरुद्रादिशिष्याणां शास्त्रे तच्छ्रवणादिति मूलहेतोर्व्यभिचारः । एतेन स्मारणाद्यकर्तृत्वमपि प्रतिक्षिप्तम् । अथ पुरुषविषयं स्मारणाद्यकर्तृत्वमत्र विवक्षितं, न तु स्मारणाद्यकर्तृत्वमात्रम् ; न च स्त्रियः कदाचन पुंसां स्मारणादीन् कुर्वन्तीति न व्यभिचार इति चेत्, तर्हि पुरुषेतिविशेषणं करणीयम् । करणेऽप्यसिद्धतादोषः, स्त्रीणामपि कासाश्चित् पारगतागमरहस्यवासितसप्तधातूनां क्वापि तथाविधावसरे समुच्छृङ्खलप्रवृत्तिपराधीनसाधुस्मारणादेरविरोधात् । अथामहर्दिकत्वेन स्त्रीणां पुरुषेभ्योऽपकर्षः। सोऽपि किमाध्यात्मिकी समृद्धिमाश्रित्य,बाह्यां वा । नाऽऽध्यात्मिकम् , सम्यग्दर्शनादिरत्नत्रयादेस्तासामपि सद्भावात् । नापि बाह्याम् , एवं हि महत्यास्तीर्थकरादिलक्ष्म्या गणधरादयः, चक्रधरादिलक्ष्म्याश्चेतरक्षत्रियादयो न भाजनम् ; इति तेषामप्यमहद्धिकत्वेनापकृष्यमाणत्वाद् मुक्त्यभावो भवेत्। अथ याऽसौ पुरुषवर्गस्य महती समृद्धिस्ती